SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ मिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति, सुरक्षितश्च प्रवचनाधारतया, यत उक्तम्-"जेणं कुलं आयत्तं तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः ॥ अपि च| जहा सा दुमाण पवरा, जंबूनाम सुदंसणा। अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ २७॥ | व्याख्या-यथा सा द्रुमाणां मध्ये प्रवरा-प्रधाना जम्बूः नाम्ना-अभिधानेन सुदर्शना नाम सुदर्शना, न हि || | यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् द्रुमोऽस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, ४ वस्तुतः पार्थिवत्वेनोक्तत्वात् , वज्रवैडूर्यादिमयानि हि तन्मूलादीनि तत्र तत्रोक्तानि, सा च कस्येत्याह-'अनादृतस्य अनाहतनाम्नो 'देवस्य' जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयत्वेन सम्बन्धिनी, एवं भवति बहुश्रुतः, सोऽपि झमृतो|पमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषदुमोपमसाधुषु च प्रधान इति सूत्रार्थः ॥ अन्यच जहा सा नईण पवरा, सलिला सागरंगमा । सीया नीलवंतपवहा, एवं हवइ बहुस्सुए ॥२८॥ व्याख्या-यथा सा 'नदीनां' सरितां 'प्रवरा'प्रधाना सलिलं-जलमस्यामस्तीति, अर्शआदेराकृतिगणत्वादचि १ यस्मिन् कुलं स्वाधीनं तं पुरुषमादरेण रक्ष dain Educati o nal For Personal & Private Use Only Pw.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy