SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ नयैः प्रतिभादिगुणोदप्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ अपरं च जहा से वासुदेवे, संखचक्रगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥२१॥ है। व्याख्या-यथा स 'वासुदेवः' विष्णुः, शङ्खश्च-पाञ्चजन्यः चक्रं च-सुदर्शनं गदा च-कौमोदकी शङ्खचक्रगदास्ता-2 धारयति-वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम्-अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्येत्यप्रतिहतबलः, किमक्तं 1 भवति?-एकं सहजसामर्थ्यवानन्यच्च तथाविधायोधान्वित इति, युध्यतीति योधः-सुभटो भवति, एवं भवति बहु-4 ||श्रुतः, सोऽपि ह्येकं खाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपेत इति, योध/ इव योधः कर्मवैरिपराभवं प्रतीति सूत्राथैः ॥ अपरं जहा से चाउरते, चक्कवट्टी महिहिए । चोदसरयणाहिवई, एवं हवइ बहुस्सुए ॥ २२ ॥ | व्याख्या-यथा स चतसृष्वपि दिवन्तः-पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः खसम्बन्धितयाऽस्येति चतुरन्तः, चतुर्भिर्वा हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधिपः, महती ऋद्धिः-समृद्धिरस्येति महर्द्धिकः-दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि । चामुनि-सेणावइ गाहावइ पुरोहिय गय तुरंग वड्डइग इत्थी। चकं छत्तं चम्मं मणि कागिणी खग्ग दंडोय ॥१॥' १ सेनापतिः गाथापतिः पुरोहितो गजस्तुरङ्गो वर्धकिः स्त्री। चक्रं छत्रं चर्म मणिः काकिणी खड्गो दण्डश्च ॥ १ ॥ ROACHESTRUCROCEASE Jain Education.ind inal For Personal & Private Use Only Ww.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy