SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३४९॥ त्तिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभिर्वृतः षष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो बहुश्रुतपूभवति, दर्शनोपहन्तृभिर्बहुभिरपि न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ अन्यच्च जाध्ययनं. जहा से तिक्खसिंगे, जायक्खंधे विरायइ । वसमे जूहाहिवती, एवं भवति बहुस्सुए ॥१९॥ व्याख्या-यथा स तीक्ष्णे-निशिताने शृङ्गे-विषाणे यस्य स तथा, जातः-अत्यन्तोपचितीभूतः स्कन्धः-प्रतीत ६ एवास्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत् , तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, 'वि राजते' विशेषेण राजते-शोभते 'वृषभः' प्रतीतो, यूथस्य-गवां समूहस्याधिपतिः-खामी यूथाधिपतिः सन् , एवं भव बहुश्रुतः, सोऽपि हि परपक्षभेत्तृतया तीक्ष्णाभ्यां खशास्त्रपरशास्त्राभ्यां शृङ्गाभ्यामिवोपलक्षितः गच्छगुरुकार्य धरणधौरेयतया च जातस्कन्ध इव जातस्कन्धः, अत एव च यूथस्य-साध्वादिसमूहस्याधिपतिः-आचार्यपदवी हैं गतः सन् विराजते इति सूत्रार्थः ॥ अन्यच्चजहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं भवइ बहुस्सुए ॥ २० ॥ ॥३४९॥ व्याख्या-यथा स तीक्ष्णाः-निशिता दंष्ट्राः-प्रतीता एव यस्य स तीक्ष्णदंष्ट्रः, 'उदग्रः' उत्कट उदग्रवयःस्थितत्वेन वा उदग्रः, अत एव 'दुप्पहंसए'त्ति दुष्प्रधर्ष एव दुष्प्रधर्षकः-अन्यैर्दुरभिभवः 'सिंहः' केशरी 'मृगाणाम्' आर-3 ण्यप्राणिनां 'प्रवरः' प्रधानो भवति, एवं भवति बहुश्रुतः, अयमपि हि परपक्षभेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमादि For Personal & Private Use Only www.jainelibrary.org dan Education tritematona
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy