________________
जहाइन्नसमारूढे, सूरे दढपरकमे । उभओ नंदिघोसणं, एवं हवइ बहुस्सुए ॥१७॥ व्याख्या-यथा आकीर्ण-जात्यादिगुणोपेतं तुरङ्गमं सम्यगारुढः-अध्यासितः आकीर्णसमारुढः, सोऽपि कदाचित् कातर एव स्यादत आह-'शूरः' चारभटः दृढः-गाढः पराक्रमः-शरीरसामर्थ्यात्मको यस्य स तथा, "उभउत्ति उभयतो वामतो दक्षिणतश्च यद्वाऽग्रतः पृष्ठतश्च 'नन्दीघोषण' द्वादशतूर्यनिनादात्मकेन, यद्वा आशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद्घोषेण बन्दिकोलाहलात्मकेन, लक्षणे तृतीया, एवं भवति बहुश्रुतः, किमुक्तं भवति ?-यथैवंविधः शूरो न केनचिदभिभूयते न चान्यस्तदाश्रितः, तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः खाध्यायघोषरूपेण खपक्षपरपक्षयोर्वा चिरं जीवत्वसौ येनानेन प्रवचनमुद्दीपितमित्याद्याशीर्वचनात्मकेन नान्दीघोषेणोपलक्षितः परतीर्थिभिरतीव मदावलिप्सैरपि नाभिभवितुं शक्यः, न चात्र प्रतपस्येतदाश्रितोऽन्योऽपि कथञ्चिज्जीयत इति सूत्रार्थः ॥ तथा
जहा करेणुपरिकिण्णे, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं भवइ बहुस्सुए ॥१८॥ व्याख्या-'यथा' करेणुकाभिः-हस्तिनीभिः परिकीर्णः-परिवृतो यः स तथा, न पुनरेकाक्येव 'कुअरः' हस्ती पष्टिहायनान्यस्येति षष्टिहायनः-पष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम्, अत एव च 'बलवंतेत्ति बलं-शरीरसामर्थ्यमस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः ?नान्यैर्मदमुखैरपि मतङ्गजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्प
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org