________________
उत्तराध्य. बृहद्वृत्तिः ॥३५०॥
बहुश्रुतपू. जाध्ययनं.
LEARNAGARRIALORERGRESS
तेषामधिपतिः चतुर्दशरत्नाधिपतिः, ‘एवं भवति बहुश्रुतः' सोऽपि ह्यासमुद्रमहीमण्डलख्यातकीर्तिः तिसृषु विश्वन्यत्र च बन्दीभूतविद्याधरवृन्द इति दिक्चतुष्टयव्यापिकीर्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानादिधम्मैरन्तःकर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामौषध्यादयश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलब्ध्यादयश्च महत्व है एवास्य भवन्ति, सन्ति चास्यापि चतुर्दशरत्नोपमानि सकलातिशयनिधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यतास्वेति सूत्रार्थः ॥ अन्यच्च
जहा से सहस्सक्खे, वजपाणी पुरंदरे । सके देवाहिवई, एवं हवइ बहुस्सुए ॥२३॥ । व्याख्या-यथा स सहस्रमक्षीण्यस्येति सहस्राक्षः-सहस्रलोचनः, अत्र च सम्प्रदायः-'सहस्सक्खत्ति पंच मंति|सया देवाणं तस्स, तेसिं सहस्सं अच्छीणं, तेसिं नीईए विक्कमति, अहवा जं सहस्सेणं अच्छीणं दीसति तं सो दोहिं अच्छीहिं अब्भहियगरागं पेच्छती'ति । वज्र-वज्राभिधानमायुधं पाणावस्येति वज्रपाणिः, लोकोक्त्या च पूर्दार-15 णात् पुरन्दरः, क ईगित्याह-शको 'देवाधिपतिः' देवानां खामी, एवं भवति बहुश्रुतः, सोऽपि हि श्रुतज्ञाने शेषातिशयरत्ननिधानतुल्येन लोचनसहस्रेणेव जानीते, यश्चैवं तस्यैवंविधत्वोपलक्षणं, वज्रमपि लक्षणं पाणी सम्भ
१ पञ्च मत्रिशतानि देवानां तस्य, तेषां सहस्रमणां, तेषां नीतौ विक्रमते, अथवा यत्सहस्रेणाक्षणां दृश्यते तत् स द्वाभ्यामक्षिभ्यामभ्यधिकतरं प्रेक्षते इति ।
॥३५०॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org