________________
उत्तराध्य.
बृहद्वृत्तिः
॥३४७॥
न प्रकृतसङ्ख्याविरोधः, 'अभिजातिए 'त्ति अभिजातिः - कुलीनता ता गच्छति - उत्त्क्षप्त भारनिर्वाहणादिनेत्यभिजातिगः, हीः- लज्जा सा विद्यतेऽस्य हीमान्, कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते, 'प्रतिसंलीनः' | गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरन्नाह - 'सुविनीतः' सुविनीतशब्दवाच्यः 'इति' | इत्येवंविधगुणान्वितः उच्यते इति सूत्राष्टकार्थः ॥ यश्चैवं विनीतः स कीदृक् स्यादित्याह -
वसे गुरुकुले निच्चं, जोगवं उवहाणवं । पियंकरे पियंवाई, से सिक्खं लडुमरिहति ॥ १४ ॥ व्याख्या- ' वसेत् ' आसीत क ? - गुरूणाम् - आचार्यादीनां कुलम् - अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति ? - यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् उक्तं हि " णाणस्स होइ भागी” इत्यादि, योजनं योगो - व्यापारः, स चेह प्रक्रमाद्धर्मगत एव तद्वान्, अतिशायने मतुप्, यद्वा योगः -समाधिः सोऽस्यास्तीति योगवान्, प्रशंसायां मतुप् उपधानम् - अङ्गानङ्गाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृच्छ्रभीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति वा, प्रियम् - अनुकूलं करोतीति प्रियङ्करः, कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते, अत एव च 'पियंवाई 'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा- 'प्रियङ्करः' १ ज्ञानस्य भवति भागी । (थिरयरओ दंसणे चरित्ते य । घण्णा आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥ )
Jain Education International
For Personal & Private Use Only
बहुश्रुतपू
जाध्ययनं.
११
॥३४७॥
www.jainelibrary.org