________________
%
3AUSRUSHA
हस्तादिभिः भाषाचपलः-असदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचतुर्दा, तत्र असद्-अविद्यमानमसभ्यं-खरपरुषादि असमीक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः अतीते कार्ये यो वक्ति-यदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यद् , भावचपलः सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति, 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वा दिवञ्चकः, “अकुतूहलः' न कुहुकेन्द्रजालाद्यवलोकनपरः, 'अल्पं च' इति स्तोकमेव 'अधिक्षिपति' तिरस्कुरुते, किमुक्तं भवति ?-नाधिक्षिपत्येव तावदसौ कञ्चन, अधि-४ |क्षिपन् वा कञ्चन कङ्कटेकरूपं धर्म प्रति प्रेरयन्नल्पमेवाधिक्षिपति, अभाववचनो वाऽल्पशब्दः, तथा च वृद्धाः“अल्पशब्दो हि स्तोकेऽभावे च", ततो नैव कञ्चनाधिक्षिपति, 'प्रबन्धं' चोक्तरूपं न करोति, 'मित्रीय्यमाणः' उक्तन्यायेन 'भजते' मित्रीयितारमुपकुरुते, न तु प्रत्युपकारं प्रत्यसमर्थः कृतघ्नो वा, श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानतः सुतरामवनमति, 'न च' नैव पापपरिक्षेपी' उक्तरूपः, न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति, अप्रियस्यापि मित्रस्य रहसि 'कल्लाण'त्ति कल्याणं भाषते, इदमुक्तं भवति-मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति, तथा चाह|"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः। न त्वेकदोषजनितो येषां कापः स च कृतघ्नः॥१॥” इति.I कलहश्च-वाचिको विग्रहः डमरं च-प्राणिघातादिभिस्तद्वजेको, 'बुद्धो' बुद्धिमान् , एतच्च सर्वत्रानुगम्यत एवेति
*
****
JainEducationa l
For Personal & Private Use Only
Mjainelibrary.org