SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः ११ उत्तराध्य. सेवकोऽयमित्यादिकमनाचारमेवाविष्करोति । तथा प्रकीर्णम्-इतस्ततो विक्षिप्तम् , असम्बद्धमित्यर्थः, वदति-बहुश्रुतपू. जल्पतीत्येवंशीलः प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः, अथवा-यः पात्रमिदमपात्रमिदमिति वाऽप जाध्ययनं. रीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी इति, प्रतिज्ञया वा-इदमित्थमेव इत्येकान्ताभ्युप॥३४६॥ गमरूपया वदनशीलः प्रतिज्ञावादी, तथा 'दुहिल'त्ति द्रोहणशीलो-द्रोग्धा, न मित्रमप्यनभिद्रुह्यास्ते, तथा 'स्तब्धः' तपस्यहमित्याद्यहङ्कतिमान् , तथा 'लुब्धः' अन्नादिष्वभिकाढावान् , तथा 'अनिग्रहः' प्राग्वत्, तथाऽसंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यातिगर्द्धनोऽन्यस्मै खल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति, तथा 'अचियत्ते'त्ति अप्रीतिकरः-दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितः अविनीत उच्यते इति निगमनम् । इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह-अथ पञ्चदशभिः स्थानः। सुष्ठु-शोभनो विनीतो-विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह-'नीयावित्ति'त्ति नीचम्-अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्तत इत्येवंशीलो नीचवर्ती-गुरुषु न्यगवृत्तिमान् , यथाऽऽह-"नीयं सेज़ गई ठाणं,21 ४णियं च आसणाणि य । णियं च पाय वंदेजा, णीयं कुजा य अंजलिं ॥१॥' 'अचपलः' नाऽऽरब्धकार्य प्रत्यस्थिरः, ३४६॥ अथवाऽचपलो-गतिस्थानभाषाभावभेदतश्चतुर्धा, तत्र-गतिचपल:-द्रुतचारी, स्थानचपलः-तिष्ठन्नपि चलनेवास्ते १ नीचां शय्यां गतिं स्थानं नीचानि चासनानि च । नीचं पादौ वन्देत नीचं च कुर्याच्चाञ्जलिम् ॥ १ ॥ PACKASSASSAC% dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy