SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ त्याह-'अभीक्ष्ण' पुनः पुनः, यद्वा-क्षणं क्षणममि अभिक्षणम्-अनवरतं 'क्रोधी' क्रोधनः भवति, सनिमित्तमनि| मित्तं वा कुप्यन्नेवास्ते, 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं 'पकुवइत्ति प्रकर्षेण कुरुते, कुपितः सन् | सान्त्वनैरनेकैरपि नोपशाम्यति, विकथादिषु वाऽविच्छेदेन प्रवर्तनं प्रबन्धस्तं च प्रकुरुते, तथा 'मेत्तिज्जमाणो'त्ति मित्रीय्यमाणोऽपि मित्रं ममायमस्त्वितीष्यमाणोऽपि अपिशब्दस्य लुप्तनिर्दिष्टत्वात् 'वमति' त्यजति, प्रस्तावान्मि-1 त्रयितारं मैत्री वा, किमुक्तं भवति ?-यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति–ममालमेतेन, कृतमपि वा कृतघ्नतया न मन्यत इति वमतीत्युच्यते, तथा : 'सुर्य'ति अपेर्गम्यमानत्वात् श्रुतमपि-आगममपि लब्ध्वा' प्राप्य 'माद्यति' दर्प याति. किमुक्तं भवति ?-श्रुतं. हि । मदापहारहेतुः, स तु तेनापि दृप्यति । तथा 'अपिः' सम्भावनायां, सम्भाव्यत एतत् , यथाऽसौ पापैः-कथञ्चित् । |समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कुरुत इत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति गम्यते, तथा| 'अपिः' भिन्नक्रमः, ततः 'मित्रेभ्योऽपि' सुहृयोऽप्यास्तामन्येभ्यः 'कुप्यति' क्रुध्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी, “क्रुधिदुहेाऽसूयार्थानां यं प्रति कोप" (पा० १-४-३७) इत्यनेनेह चतुर्थीविधानात् , तथा 'सुप्रियस्यापि' अतिवल्लभस्थापि मित्रस्य रहसि' एकान्ते 'भाषते' वक्ति पापमेव पापकं, किमुक्तं भवति ?-अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रति १ प्राकृतानुकरणमेतत् , मित्रस्येयं मित्रीया तां क्रियमाण इति वा । Jain Education in For Personal & Private Use Only www.anelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy