________________
उत्तराध्य.
बहुश्रुतपू. जाध्ययनं.
बृहद्वृत्तिः
॥३४५॥
किञ्च-अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं, तत्त्वत उक्तहेतूनामप्यनयोरेवान्तर्भावात्, न च अविनीतविनीतयोः खरूपमविज्ञाय तौ ज्ञातुं शक्याविति यः स्थानैरविनीत उच्यते यैश्च विनीतस्तान्यभिधातुमाह-४
अह चोदसहिं ठाणेहिं, वद्यमाणो उ संजए। अविणीए वुच्चती सो उ, णिव्वाणं च ण गच्छइ ॥६॥ अभिक्खणं कोही भवइ, पबंधं च पकुव्वइ । मित्तिजमाणो वमति, सुयं लभ्रूण मजद ॥७॥ अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पति । सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ।। ८॥ पइण्णवाई दुहिले, थद्धे लुद्धे अनिग्गहे । असंविभागी अचियत्ते, अविणीएत्ति वुच्चइ ॥९॥ अह पन्नरसहि ठाणेहिं, सुविणीएत्ति वुच्चइ । नीयावित्ती अचवले, अमाई अकुऊहले ॥१०॥ अप्पं च अहिक्खिवति, पबंधं च ण कुव्वइ । मित्तिजमाणो भजति, सुयं लड़े न मज्जति ॥ ११॥ न य पावपरिक्खेवी, न य मित्तेसु कुप्पति । अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ॥ १२॥ कलहडमरवजए, बुद्धे (अ) अभिआइए । हिरिमं पडिसलीणो, सुविणीएत्ति वुच्चइ ॥ १३ ॥ व्याख्या-'अथ' इति प्राग्वत् , चतुर्भिरधिका दश चतुर्दश तेषु चतुर्दशसङ्खयेषु स्थानेषु, सूत्रे तु सुव्यत्ययेन सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे 'संयतः' तपखी, अविनीत उच्यते, 'स तु' इत्यविनीतः पुनः, किमित्याह-'निर्वाणं च' मोक्षं, चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न प्राप्नोति ॥ कानि पुनश्चतुर्दश स्थानानी
॥३४५॥
Jain Education Internal anal
For Personal & Private Use Only
www.jainelibrary.org