________________
माहेतुभिः-शिक्षणं शिक्षा-ग्रहणासेवनात्मिका 'न लभ्यते' नावाप्यते, तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः,
कैः पुनः सा न लभ्यते ? इत्याह-'स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन' मद्यविषयादिना रोगेण' गलत्-४ है कुष्ठादिना 'आलस्पेन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः, चः समस्तानां व्यस्तानां च हेतुत्वमेषां : P द्योतयति ॥ इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह-अथाष्टभिः स्थानैः शिक्षायां शीलः-खभावो यस्य । शिक्षा वा शीलयति-अभ्यस्यतीति शिक्षाशीलः-द्विविधशिक्षाभ्यासकृद्, इतिशब्दः स्वरूपपरामर्शकः, उच्यते ती कृद्गणधरादिभिरिति गम्यते, तान्येवाह-'अहस्सिरे'त्ति "तृन इर" इति प्राकृतलक्षणादहसनशीलः अहसिता-न सहेतुकमहेतुकंवा हसन्नेवास्ते, सदा सर्वकालं 'दान्तः'इन्द्रियनोइन्द्रियदमवान.'नच' नैव 'मर्म'परापभ्राजनाकारि कुत्सित जात्यादि 'उदाहरेत्' उद्घट्टयेत् । 'न' नैव 'अशीलः' अविद्यमानशीलः, सर्वथा विनष्टचारित्रधर्म इत्यर्थः, न 'विशील'||3 विरूपशीलः, अतीचारकलुषितव्रत इतियावत् , 'न खात्' न भवेद्, इह पूर्वत्र च सम्भावने लिट्, 'अतिलोलुपः'
व रसलम्पटः, 'अक्रोधनः' अपराधिन्यनपराधिनि वा न कथञ्चित् क्रुध्यति, सत्यम्-अवितथभाषणं तस्मिन् रतः-आसक्तः सत्यरतः इति, निगमयितुमाह-शिक्षाशील 'इति' इत्यनन्तरोक्तगुणभाग उच्यते, स च बहुश्रुत एव भवतीति भावः । इह च स्थानप्रक्रमेऽप्येवमभिधानं धर्मधर्मिणोः कथञ्चिदनन्यत्वख्यापनार्थ, विशेषाभिधायित्वाच क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानं, परिहारद्वयमपीदमुत्तरत्रापि भावनीयमिति सूत्रत्रयार्थः ॥
Jain Education
For Personal & Private Use Only
Lainelibrary.org