________________
उत्तराध्य.
बृहद्वृत्तिः ॥३४४॥
प्रक्रान्ता, सा च बहुश्रुतखरूपपरिज्ञान एव कर्तुं शक्या, बहुश्रुतखरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव | बहुश्रुतपूज्ञायत इत्यबहुश्रुतखरूपमाह
जाध्ययनं. जे यावि होइ निविज्जे, थद्धे लुढे अनिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥ व्याख्या-जे यावि'त्ति यः कश्चित, चापिशब्दौ भिन्नक्रमावृत्तरत्र योक्ष्येते. 'भवति' जायते निर्गतो विद्यायाःसम्यकशास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि, यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धि. मान्, न विद्यते इन्द्रियनिग्रहः-इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-पक्ति उल्लपति 'अविनीतच' विनयविरहितः 'अबहुस्सुए'त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽबहुश्रुतः, उच्यते इति शेषः, सविद्यस्याप्यवहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावनीयम् , एतद्विपरीतस्त्वाद् बहुश्रुत इति सूत्रार्थः ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यत इत्याह
अह पंचहिं ठाणेहिं, जेहिं सिक्खा ण लम्भइ । थंभा कोहा पमाएणं, रोगेणालस्सेण य ॥३॥ अह अट्टहिं ठाणेहि, सिक्खासीलेत्ति वुचइ । अहस्सिरे सयादंते, न य मम्ममुयाहरे ॥४॥
॥३४४॥ नासीले ण विसीले, ण सिया अइलोलुए। अकोहणे सच्चरए, सिक्खासीलेत्ति वुचइ ॥५॥ 'अर्थ' इत्युपन्यासार्थः 'पञ्चभिः' पञ्चसङ्खयैः तिष्ठन्त्येषु कर्मवशगा जन्तव इति स्थानानि तैः, 'यैः' इति वक्ष्य
dan Education International
For Personal & Private Use Only
www.jainelibrary.org