SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ | आचार्यादेरभिमताहारादिभिरनुकूलकारी, एवं 'प्रियवाद्यपि' आचार्याभिप्रायानुवर्तितयैव वक्ता, तथा चास्य को गुण इत्याह-'स' एवंगुणविशिष्टः 'शिक्षां' शास्त्रार्थग्रहणादिरूपां 'लब्धम्' अवाम् 'अर्हति' योग्यो भवतीति, अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षां लब्धुं नार्हतीत्यर्थादुक्तं भवति, तथा च यः शिक्षां लभते स बहुश्रुतः इतर स्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं |तस्यैव स्तवद्वारेणाह - जहा - संखंमि पर्यं निहियं, दुहओवि विराय । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥ १५ ॥ व्याख्या – 'यथा' इति दृष्टान्तोपन्यासे 'शङ्ख' जलजे 'पयो' दुग्धं 'निहितं' न्यस्तं' दुहओवित्ति द्वाभ्यां प्रका| राभ्यां द्विधा, न शुद्धतादिना खसम्बन्धिगुणलक्षणेनैकेनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रय सम्बन्धिगुणद्वय लक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, 'विराजते' शोभते, तत्र हि न तत् कलुषीभवति, न चाम्लतां भजते, नापि च परित्रवति, 'एवम्' अनेन प्रकारेण बहुश्रुते 'भिक्खु'त्ति आर्पत्वाद् भिक्षौ - तपखिनि, 'धर्मः' यतिधर्मः 'कीर्तिः' श्लाघा ' तथा ' इति धर्मकीर्त्तिवत् 'श्रुतम्' आगमो, विराजत इति सम्बन्धः किमुक्तं भवति ? - यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाञ्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहु| श्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते, तान्यपि हि न तत्र मालिन्यम् अन्यथाभावं हानिं वा कदाचन प्रतिपद्य - Jain Education International For Personal & Private Use Only 1. Www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy