________________
सेसाणं मरणाणं नेओ संतरनिरंतरो उ गमो। साई सपज्जवसिया सेंसा पढमिल्लुगमणाइ ॥ २३२ ॥
व्याख्या-शेषाणां मरणानाम्-अवधिमरणादीनां पञ्चदशानां ज्ञेयः, सहान्तरेण-व्यवधानेन वर्तत इति सा-3 न्तरः, निष्क्रान्तोऽन्तरान्निरन्तरश्च, तुःशब्दस्य समुच्चयार्थत्वात् , उक्तं हि-"तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु' कोऽसौ ?-गम्यते अनेन वस्तुखरूपमिति गमः-प्ररूपणा, इदमुक्तं भवति–यदाऽन्यतरद्वालमरणादिकं । प्राप्य म्रियते मृत्वा च भवान्तरे मरणान्तरमनुभूय पुनस्तदेवाप्नोति तदा सान्तरमिति प्ररूपणा, यदा तु बालमरणादिकमवाप्य पुनस्तदेवाव्यवहितमाप्नोति तदा निरन्तरं भवति, तत्प्ररूपकत्वाचेह गमोऽपि सान्तरो निरन्तरश्चेत्युक्तः । सम्प्रति गाथापश्चार्धेन कालद्वारमाह-सादीनि च सपर्यवसितानि च सादिसपर्यवसितानि 'शेषाणि'। षोडश वक्ष्यमाणापेक्षया अवधिमरणादीनि, एकसामयिकतायास्तेषामभिहितत्वात् , प्रवाहापेक्षया तु शेषभङ्गोपल-| क्षणमेतत् , प्रवाहतोऽपि भङ्गत्रयपतितानि शेषमरणानि सम्भवन्ति, तथा च वृद्धाः-"बालमरणाणि अणाइयाणि वा अपजवसियाणि वा, अणादियाणि वा सपज्जवसियाणि, पंडियमरणाणि पुण साइयाणि सपजवसियाणि" मुक्त्यवाप्तौ तच्छित्तिसम्भवादिति भावः, 'पढमिल्लुगंति प्रथमकम्-आवीचिमरणम् 'अनादि' आदिरहितं प्रवा
१ बालमरणानि अनादिकानि वा अपर्यवसितानि वा, अनादिकानि वा सपर्यवसितानि, पण्डितमरणानि पुनः सादिकानि सपर्यवसितानि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org