________________
4-%eo A
उत्तराध्य. मरणे अणंतभागो इकिकें मरइ आइमं मोत्तुं । अणुसमयाई नेयं पढमचरिमंतरं नत्थि ॥ २३१॥ अका बृहद्वृत्तिः II व्याख्या-'मरणे' प्रागुक्तरूपे अनन्तभाग एकैकस्मिन् म्रियते, किं सर्वस्मिन्नपि ? नेत्याह-'आदिमम्' आवीचि-||
मरणाध्य. मरणं, तस्यैवाद्यत्वात् , 'मुक्त्वा ' अपहाय, इयमत्र भावना-शेषमरणखामिनो हि सर्वजीवापेक्षया अनन्तभाग एवेति ॥२३९॥
तेष्वनन्तो भागो नियत इत्युच्यते, आवीचिमरणखामिनस्तु सिद्धविरहिताः सर्व एव जीवाः, ते चानन्ता इतिकृत्वाऽनन्तभागहीनाः सर्वे जीवा म्रियन्ते इत्युच्यते । उक्तं कतिभागो म्रियते एकैकस्मिन्निति द्वारम् , अधुनाऽनुस-IX मयद्वारमाह-'अणुसमय'त्ति समयं समयमनु अनुसमयं, वीप्सायामव्ययीभावः, ततश्चानुसमय-सततम् , 'आदि'
प्रथममावीचिमरणं 'ज्ञेयम्' अवबोद्धव्यं, यावदायुस्तस्य प्रतिपादनात् , शेषाणां त्वायुषोऽन्त्यसमय एवैकत्र भावाद-18 भानुसमयतानभिधानं, बहुसमयविषयत्वादनुसमयतायाः, तथा च वृद्धव्याख्या-"पढमे जाव आउं धरड सेसाणं एग
समयं जहिं मरई" न च 'मासं पायोवगया' इत्यागमेन विरोधः, तत्र पादपोपगमनशब्देन निश्चेष्टताया एवाभिधादानात् , मरणस्य तु तत्राप्यायुस्रुटिसमय एव सद्भावात् , तुः पूरणे । गतमनुसमयद्वारम् , इदानीं सान्तरद्वारमाह-तत्र "२२॥
प्रथमचरमयोरन्तरं-व्यवधानं 'नास्ति' न विद्यते, प्रथमस्यावीचिमरणस्य सदा सम्भवात् , चरमस्य भवापेक्षया केवलिमरणस्य पुनर्मरणाभावादिति भाव इति गाथार्थः ॥ २३१ ॥ शेषाणामपि किमेवमित्याह
१ प्रथमं यावदायुर्धारयति शेषाणामेकसमयो यत्र म्रियते
SC
dain Education International
For Personal & Private Use Only
www.jainelibrary.org