SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दावोत्पत्त्यभावान्न तद्भवमरणसम्भव इति गाथात्रयार्थः ॥ २२७-२२८-२२९ ॥ गतं कति म्रियन्त एकसमय इति द्वारम् , इदानी कतिकृत्वो म्रियते एकैकस्मिन् ? इति द्वारमाहसंखमसंखमणंता कमो । उ इकिकगंमि अपसत्थे । सत्तट्रग अणुबंधो पसत्थए केवलिंमि सई ॥ २३० । हैव्याख्या-'संखमसंखंति आपत्वात् सङ्ख्याः सङ्ख्याताः असङ्ख्या-अविद्यमानसङ्ख्याः अनन्ता-अपर्यवसिता, वारा इति प्रक्रमः, 'कमो उत्ति क्रमः परिपाटी, तुशब्दश्च कायस्थितेरल्पबहुत्वापेक्षयाऽयं ज्ञेय इति विशेषद्योतकः, 'एकेकगंमि'त्ति एकैकस्मिन् 'अप्रशस्ते' बालमरणादौ निरूप्यमाणे, तत्र सामान्येन पञ्चेन्द्रियाविरतदेशविरतो च सङ्ख्याताः, शेषाः पृथिव्युदकाग्निवायुद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः असङ्ख्याताः, वनस्पतयोऽनन्ता, एते हि कायस्थित्यपेक्षया यथाक्रमं बहुबहुतरबहुतम स्थितिमाज इतिकृत्वा । प्रशस्ते कति वारा म्रियत इत्याह-'सत्तट्टग'त्ति सप्त है वाऽष्ट वा सप्ताष्टास्ते परिमाणमस्येति सप्ताष्टकः, कोऽसौ ?-'अनुबन्धः' सातत्येन भवनं तन्मरणानामिति, ततोऽय मर्थः-सप्त वा अष्ट वा वारा म्रियते, क ?-प्रशस्तके' सर्वविरतिसम्बन्धिनि पण्डितमरणे, इह च चारित्रस्य निरन्तहरमवाप्त्यसम्भवात् तद्वत एव च प्रशस्तमरणभावादर्थाद् व्यवधानमपि देवभवैराश्रीयते, 'केवलिनि' यथाख्यातचा-2 हरित्रवति समुत्पन्नकेवले 'सई'ति सकृदेकमेव मरणमिति गाथार्थः ॥ २३०॥ उक्तं कतिकृत्वो म्रियत एकैकस्मिन्निति द्वारं, सम्प्रति कतिभाग एकैकस्मिन्मरणे म्रियत इति द्वारमाह Jain Education internabonal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy