________________
पन्या-मार्यमाणत्वात् मार्गो-मोक्षस्तस्य ‘देसिय'त्ति सूत्रत्वाद्देशको मार्गदेशको दृश्यते, ततस्तस्यापि तत्तापक
मामपश्यद्भिरपि भाविभव्यैर्निश्चेतव्यं, यतश्चैवं भाविभव्यानामुपदिश्यते अतः सम्प्रतीत्यादि प्राग्वत् , द्विविधाऽपि 18 तावदित्थं व्याख्या सूचकत्वात् सूत्रस्येति गाथार्थः ॥ अत्रैवार्थे पुनरुपदिशन्नाह
___ अवसोहिय कंटगापह, ओइन्नोऽसि पहं महालयं । गच्छसि मग्गं विसोहिया, समयं० ॥ ३२॥
व्याख्या-'अवसोहिय'त्ति अवशोध्य-अपसार्य पृथकृत्य परिहत्येतियावत् , कम् ?-'कंटयापहंति आकारोडलाक्षणिकः, कण्टकाश्च द्रव्यतो बब्बूलकण्टकादयः भावतस्तु चरकादिकुश्रुतयस्तैराकुलः पन्थाः कण्टकपथस्तं, तर अवतीर्णोऽसि' अनुप्रविष्टो भवसि 'पहंति पन्थानं 'महालय'ति महान्तं महतां वाऽऽलयः-आश्रयो महालयः स च द्रव्यतो राजमार्गः भावतस्तु महद्भिस्तीर्थकरादिभिरप्याश्रितः सम्यग्दर्शनादिमुक्तिमार्गस्तं, कश्चिदवीणा ऽपि मार्ग न गच्छेत् अत आह-'गच्छसि'-यासि मार्ग, न पुनरवस्थित एवासि, सम्यग्दर्शनाद्यनुपालनेन शक्ति मार्गगमनप्रवृत्तत्वाद्भवतः, तत्राप्यनिश्चयेऽपायप्राप्तिरेव स्यात् इत्याह-विशोध्य' इति विनिश्चित्य, तदेवं प्रवृत्तः । सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ एवं च पूर्वेण दर्शनविशुद्धिमनेन च मार्गप्रतिपत्तिममिवाय तत्प्रतिपत्तावपि कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽह
अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समय० ॥ ३३ ॥
AASARAM
For Personal & Private Use Only
Jain Education in
www.jainelibrary.org