SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ शारदं, वेत्युपमार्थो भिन्नक्रमश्च प्राग् योजितः 'पानीयं' जलं, यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्तते तथा | त्वमपि चिरसंसृष्टचिरपरिचितत्वादिभिर्मद्विषय स्नेहवशगोऽपि तमपनय, अपनीय च 'से' इत्यथानन्तरं सर्वनेहव|र्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह च जलमपहायैतावति सिद्धे यच्छारदशब्दोपादानं तच्छारदजलस्येव | स्नेहस्याप्यतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः ॥ किञ्च - चिच्चा ण धणं च भारियं, पव्वइओ हि सि अणगारियं । मा वंतं पुणोवि आविए, समयं ० ॥ २९ ॥ व्याख्या- ' त्यक्त्वा' परिहृत्य 'ण' इति वाक्यालङ्कारे 'धनं' चतुष्पदादि चशब्दो भिन्नक्रमः, ततो 'भार्या च' कलत्रं च 'प्रत्रजितः' गृहान्निष्क्रान्तः 'हिः' इति यस्मात् 'सी' ति सूत्रत्वेनाकारलोपात् 'असि' भवसि 'अणगारियं' ति | अनगारेषु - भावभिक्षुषु भवमानगारिकमनुष्ठानं, चस्य गम्यमानत्वात् तच्च प्रतिपन्नवानसीति शेषः, यद्वा प्रत्रजितः - प्रतिपन्नः 'अणगारिय'ति अनगारिताम्, अतो 'मा' इति निषेधे, 'वान्तम्' उद्गीर्ण 'पुणोवि 'ति पुनरपि 'आथिए' त्ति आपिव, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ कथं च वान्ताऽऽपानं न भवतीत्याह - raउज्झिय मित्तबंधवं, विउलं चेव घणोहसंचयं । मा तं बिइयं गवेसए, समयं ० ॥ ३० ॥ व्याख्या- 'अपो' त्यक्त्वा, मित्राणि च -सुहृदो बान्धवाच - खजना इति समाहारे मित्रबान्धवं, 'विपुलं' विस्तीर्ण 'चः' समुच्चये भिन्नक्रमश्च 'एव' इति पूरणे, ततो धनं - कनकादिद्रव्यं, तस्यौघः - समूहस्तस्य सञ्चयो - राशी - Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy