________________
दुमपत्रकमध्ययन.
उत्तराध्य.
मजत्वाच, तथोपदेशाधिकारादुपदेशस्य च श्रोत्रग्राह्यत्वात् । तथा च 'सर्वबल'मिति सर्वेषा-करचरणाद्यवयवानां बृहद्वृत्तिः
खखव्यापारसामर्थ्य, यद्वा सर्वेषां-मनोवाक्कायानां ध्यानाध्ययनचक्रमणादिचेष्टाविषया शक्तिरिति सूत्रषट्कार्थः ॥
जरातः शरीराशक्तिरुक्ता, सम्प्रति रोगतस्तामाह॥३३॥ अरई गंडं विसूईया, आयंका विविहा फुसंति ते। विहडइ विद्धंसह ते सरीरयं, समयं० ॥ २७॥
व्याख्या-'अरतिः' वातादिजनितश्चित्तोद्वेगः 'गण्ड' गड. विध्यतीव शरीरं सूचिभिरिति विसूचिका-अजीणविशेषः, आङिति सर्वात्मप्रदेशाभिव्याप्त्या तङ्कयन्ति-कृच्छजीवितमात्मानं कुर्वन्तीत्यातङ्काः-सद्योघातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः 'स्पृशन्ति' परामृशन्ति 'ते' तव, शरीरकमिति गम्यते, ततश्च 'विपतति' विशेपेण बलापचयादपैति 'विध्वस्यते' जीवविप्रमुक्तं च विशेषेणाधःपतति ते शरीरकम् , अतः समयमपि गौतम! मा प्रमादीः, सर्वत्र च वर्तमाननिर्देशः प्राग्यत् । केशपाण्डुरत्वादिकं यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेषशिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥ यथा चाप्रमादो विधेयस्तथा चाह
वुच्छिद सिणेहमप्पणो, कुमुयं सारइयं व पाणियं । से सव्वसिणेहवजिए, समय० ॥२८॥ व्याख्या-वोच्छिंद'त्ति विविधैः प्रकारैरुत-प्राबल्येन छिन्द्धि-अपनय व्युच्छिन्द्धि, कम् ?-'स्नेहम्' अभिष्वङ्ग, | कस्य सम्बन्धिनम् ?-आत्मनः, किमिव ?-'कुमुदमिव' चन्द्रोद्योतविकाश्यत्पलमिव 'सारइयं वचि सूत्रत्वाच्छदि भवं|
॥३३॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org