SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ RECENESSONG-3 विषयचैतन्यत्वात् , यतश्चैवमतो दुरापामिमामविकलां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥ अन्यच्च सति शरीरे तत्सामर्थ्य च सति धर्मस्पर्शनेति तदनित्यताऽभिधानद्वारेणाप्रमादोपदेशमाह परिजूरह ते सरीरयं, केसा पंडुरगा (य) भवंति ते । से सोयबले य हायइ, समयं० ॥२१॥ परि० चक्खुबले० ॥ २२॥० घाणवले ॥२३॥० रसणवले ॥२४॥० फासबले०॥२५॥ सव्वबले० ॥२६॥ व्याख्या-'परिजीयति' सर्वप्रकारां वयोहानिमनुभवति 'ते' तव शरीरमेव जरादिभिरभिभूयमानतयाऽनुकम्पनीयमिति शरीरकं, यद्वा । 'परिजूरइ'त्ति 'निन्देजूर' इति प्राकृतलक्षणात् परिनिन्दतीवाऽऽत्मानमिति गम्यते, यथा-धिग्मां कीदृशं जातमिति, किमिति ?-यतः 'केशाः' शिरसिजाः, उपलक्षणत्वात लोमानि च पाण्डुरा एव पाण्डुरका भवन्ति, पूर्व जननयनहारिणोऽत्यन्तकृष्णाः सम्प्रति शुक्लतां भजन्ते 'ते' तव, पुनस्तेशब्दोपादानं भिन्न-2 वाक्यत्वात् उपदेशाधिकारत्वाचादुष्टम् , एवमुत्तरत्रापि, तथा 'से' इति तत् यत् पूर्वमासीत् श्रोत्रयोः-कर्णयोबलं-दूरादिशब्दश्रवणसामर्थ्य श्रोत्रबलं, 'चः' समुच्चये, 'हीयते' जरातः क्षयमुपैति, यद्वा-शरीरजीर्णताऽवस्थाभाव्येतद्वयमपि योज्यं, यथा-परिजीयते शरीरकं तथा च सति केशाः पाण्डुरका भवन्ति 'से' इत्यथ श्रोत्रबलं हीयते यतः ततः शरीरस्य तत्सामर्थ्यस्य चास्थिरत्वात् समयमपि गौतम ! मा प्रमादीः । एवं सूत्रपञ्चकमपि नेयं । थमतः श्रोत्रोपादानं प्रधानत्वात् , प्रधानत्वं च तस्मिन् सति शेषेन्द्रियाणामवश्यं भावात् पटुतरक्षयोपश-र For Personal & Private Use Only www.jainelibrary.org Jan Education International
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy