SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥३३७|| उत्तराध्य. किमिति:-यतः कुत्सितानि च तानि तीर्थानि कुतीर्थानि च-शाक्यौलूक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया द्रुमपत्रकबृहद्वृत्तिः खीकृतत्वात्ते कुतीर्थिनस्तानितरां सेवते यः स कुतीर्थिनिषेवको जनो-लोकः, कुतीर्थिनो हि यशःसत्काराद्येषिणो यदेव ने से प्राणिप्रियं विषयादि तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवंविधत्वात् , उक्तं हि-"सत्कारयशोलाभार्थिभिश्च मूरैरिहान्य-2 तीर्थकरैः । अवसादितं जगदिदं प्रियाण्यपथ्यान्युपदिशद्भिः ॥१॥” इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ?, पठ्यते च-'कुतित्थिणिसेवए जणे'त्ति स्पष्टः, एवं च तदुर्लभत्वमवधार्य समयमपि गौतम ! मा। प्रमादीः । किंच-लब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा तां श्रुतिम्' उक्तिरूपां 'श्रद्धान' तत्त्वरुचिरूपं 'पुणराविति । पुनरपि 'दुर्लभं' दुरापम् , इहैव हेतुमाह-मिथ्याभावो मिथ्यात्वम्-अतत्त्वेऽपि तत्त्वप्रत्ययरूपं तं निषेवते यः स मिथ्यात्वनिषेवको जनो-लोकः, अनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, यत एवमतः सम-| यमपि गौतम ?.मा प्रमादीः । अन्यच्च-'धर्म' प्रक्रमात् सर्वज्ञप्रणीतम् ‘अपिः' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि' कर्तुमभिलपन्तोऽपि दुर्लभकाः कायेन-शरीरेण, उपलक्षणत्वान्मनसा वाचा च, 'स्पर्शका' अनुष्ठा|| तारः, कारणमाह-'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिपु 'मूर्च्छिता' मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति । शेषः, प्रायेण ह्यपथ्येष्वेव विषयेष्वभिष्वङ्गःप्राणिनां, यत उक्तम्-"प्रायेण हि यदपथ्यं तदेव चातुरजनप्रियं भवति ।। विषयातुरस्य जगतस्तथाऽनकलाः प्रिया विषयाः॥१॥" पाठान्तरतः कामगणैर्मछिता इव मूच्छिताः, विलुप्तधर्म ॥३३७॥ www.jainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy