________________
लद्धणवि उत्तमं सुई, सद्दहणा पुणरावि दुल्लहा । मिच्छत्त० समयं ॥१९॥ धम्मपि हु सद्दहंतया, दुल्लभया काएण फासया । इह कामुगुणेहिं मुच्छिया, समयं ॥२०॥ व्याख्या-लब्ध्वाऽपि' प्राप्यापि 'मानुषत्वं' इदं तावदतिदुर्लभमेव कथञ्चित्तु लब्ध्वाऽपीत्यपिशब्दार्थः, 'आर्यत्वं' मगधाचार्यदेशोत्पत्तिलक्षणं 'पुनरपि' भूयोऽपि, आकारस्त्वलाक्षणिकः, 'दुर्लभं' दुरवापं, किमिति ?, अत आह-बहवः-प्रभूता दस्यवो-देशप्रत्यन्तवासिनश्चौराः 'मिलेक्खु यत्ति म्लेच्छा-अव्यक्तवाचो, न यदुक्तमारवधार्यते, ते च शकयवनशवरादिदेशोद्भवाः, येष्ववाप्यापि मनुजत्वं जन्तुरुत्पद्यते, एते च सर्वेऽपि धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिसकलार्यव्यवहारबहिष्कृतास्तिर्यप्राया एवेति समयमपि गौतम! मा प्रमादीः। इत्थमार्यदेशोत्पत्तिरूपमार्यत्वमतिदुर्लभं, तथाविधमपि लब्ध्वाऽपि 'आर्यत्वम्' उक्तरूपम् , अहीनानि-अविकलानि पञ्चेन्द्रियाणि-स्पर्शनादीनि यस्य || स तथा तद्भावोऽहीनपञ्चेन्द्रियता 'हुः' अवधारणे भिन्नक्रमश्च, दुर्लभा एव, यद्वा हुः पुनरर्थे, अहीनपञ्चेन्द्रियता पुनदुलभा, इहैव हेतुमाह-विकलानि-रोगादिभिरुपहतानीन्द्रियाणि येषां तद्भावो विकलेन्द्रियता, हुरिति निपातोऽनेकाथतया च बाहुल्यसूचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते ततो दुर्लभैवाहीनपञ्चेन्द्रियता, तथा च समयमपि । गौतम ! मा प्रमादीः। तथा कथञ्चिदहीनपञ्चेन्द्रियतामप्युक्तन्यायतोऽतिदुर्लभामपि 'स' इति जन्तुः ‘लभेत' प्रामुयात् , , तथाऽप्युत्तमः-प्रधानो यो धर्मस्तस्य श्रुतिः' आकर्णनात्मिका या सा तथा, 'हुः' अवधारणे भिन्नक्रमश्च, ततो दुर्लभैव,
Jain Education International
For Personal & Private Use Only
w.jainelibrary.org