________________
KXXMARREAM
तथा वनस्पतिसूत्रं च, नवरं कालमनन्तमिति, अनन्तकायिकापेक्षमेतत् , प्रत्येकवनस्पतीनां कायस्थितेरसङ्ख्यातत्वात् , तथा दुष्टोऽन्तोऽस्येति दुरन्तस्तम् , इदमपि साधारणापेक्षयैव, ते ह्यत्यन्ताल्पबोधतया तत उद्धृता अपिन प्रायो विशिष्ट मानषादिभवमामवन्ति। इह च 'कालं सङ्ख्यातीत मिति विशेषानभिधानेऽप्यसङ्खयोत्सर्पिण्यवसर्पिणीमानम् ,'अनन्त' मिति चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणमित्यवगन्तव्यं, यत आगमः-"अस्संखोसप्पिणिउस्सप्पिणीउ एगेंदियाण उचउहं । ता चेव ऊ अणंता वणस्सतीए उ बोद्धवा ॥१॥" तथा द्वे-द्विसङ्खये इन्द्रिये-स्पर्शनरसनाख्ये येषां ते 1 द्वीन्द्रियाः-कृम्यादयः,तत्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् कालं सङ्खयेयसज्ञित-सङ्ख्यातवर्षसहस्रात्मकम् , अतः समयमपि गौतम ! मा प्रमादीः॥ एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ॥ तथा पञ्च इन्द्रियाणि-स्पर्श-18 नादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्ताष्टानि तानि च तानि भवग्रहणानि च-जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम ! मा प्रमादीः। तथा देवान्नैरयिकांश्च अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैकभवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उक्कोसंति' उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालं-त्रयस्त्रिंशत्सागरोपममानम् , 'एगेगभवग्गहणं'ति अपेर्गम्यमानत्वादेकै
Jain Education International
For Personal & Private Use Only
Kajainelibrary.org