________________
'भेदे' विनाशे द्वावप्यावां 'तुल्यौ' मुक्तिपदप्रात्या समौ 'भविष्यावः' इति मा त्वमधृतिं कृथा इति भावः, 'यथा' येन | प्रकारेण यथा 'मन्ने'त्ति आर्पत्वात् पुरुषव्यत्ययः, ततो मन्यसे त्वम् एनं ज्ञानावाप्तिलक्षणम् 'अर्थ' वस्तु 'वयं' जानीमः | अवबुध्यामहे, किंविशिष्टाः सन्तः ? इत्याह- क्षीणः - पुनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन प्रकारेण तथा, व्यवच्छेदफलत्वात् तथैव, किमित्याह - 'मन्ने' त्ति प्राग्वत्, मन्यसे 'एनमर्थम्' अनन्तरोक्तं 'विमानवासिनोऽपि ' देवा 'जानन्ति' अवबुध्यन्ते, एवं च यथा क्षीणसंसारा जानन्ति तथा विमानवासिनोऽपि जानन्तीत्याशयवतः | क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमतमित्यहो तब विवेकितेत्युपालब्धः । तथा 'जाणगपुच्छं' ति ज्ञायक - | पृच्छया पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषयविज्ञानचक्षुषः क्वचिदविज्ञानमस्ति, किन्तु गौतमं प्रतिबोधय| न्नित्यमुपालभते, तथा यथा किम् ? - दीव्यन्ति - क्रीडन्ति देवाः तेषां वचनं वचो 'गिज्झं'ति प्रायमुपादेयम्, 'आतो' | ( ग्रन्थानं ८००० ) त्ति आर्पत्वादाहोखित्, जिनानां वराः - प्रधानाः जिनवराः य उत्पन्नकेवलास्तीर्थकृतस्तेषां १, तद| नेनैकम स्मत्परिज्ञानस्य देवपरिज्ञानस्य च साम्यापादनम्, अपरं तु साम्ये सत्यपि 'देहस्स य भेयंमी दोण्णिवि तुला | भविस्सामो'त्ति अस्मद्वचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान्, देववचनात्तु सकृदप्याकर्णितात् तथेति | प्रतिपद्याष्टापदं प्रति प्रयात इत्यहो ते मोहविजृम्भितमित्युक्तं भवति । श्रुत्वा तदुपालम्भवचो भगवतः सम्बन्धि 'मि |च्छाचारस्स' त्ति आर्षत्वान्मिथ्याचाराद् - उक्तरूपाद्गम्यमानत्वात् प्रतिक्रमितुम् 'उपतिष्ठति' उद्यच्छति । 'तन्निश्रये ति
Jain Education Ira malth
For Personal & Private Use Only
www.jainelibrary.org