________________
उत्तराध्य.
बृहद्वृत्तिः
॥३२२॥
संवासयति कोऽर्थः ? - रात्रिं दिवं चावस्थापयति, नोऽसाधुं संहरणादिनाऽऽनीतमपि 'किल' इति परोक्षाप्तवाद - सूचकः, 'अथ' इत्युपन्यासे सिद्धोपलक्षितः पर्वतः सिद्धपर्वतः 'तास्थ्यात्तद्व्यपदेश' इति तदधिष्ठायकदेवता विशेष एवोक्तः, यद्वा तत्तीर्थानुभाव एवायं यदसाधोस्तत्रावस्थानमेव न सम्पद्यते, तथा च 'चरमशरीरः साधुः आरोहतीत्यत्र पदप्रचारेणेति गम्यते, 'उदाहरणं' कथनं 'कासीअ'त्ति अकार्षीद्, अनेन चैवंविधदेवप्रवादोत्थानकारणमुक्तं 'घेत्तूण पुंडरीयम्' इत्यादिना च प्रसङ्गागतं वैरस्वामिजन्मोतं, तथा 'तं पासिऊण इड्डि न्ति तामिति - प्रतीतामेव | भगवति जङ्घाचारणरूपलब्धिरूपां, तथा 'तिवग्गावित्ति त्रयो वर्गा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमाद्दिन्नकोण्डिन्यशैवलिनस्त्रयोऽपि, नैको द्वौ वेत्यपिशब्दार्थः, 'अणगार' त्ति अविद्यमानगृहाः, ते च तापसादयोऽपि स्युरत आह-प्रकर्षेण ब्रजिता – मिध्यात्वादिभ्यो विनिर्गताः प्रत्रजिताः, तथा 'एगस्स खीरभोयणहेउ' त्ति क्षीरान्न भोजनमेव विशुद्धाध्यवसायविशेषोत्पत्तिनिबन्धनतया हेतुः - कारणं क्षीरभोजनहेतुः, मयूरव्यंसकादित्वात् समासः, तमाश्रित्येति शेषः, 'णाणुप्पय'त्ति ज्ञानस्योत्पादनमुत्पत् 'सम्पदादित्वात् क्विप्' ( पा० ३ - ३ - ९४ ) ज्ञानोत्पत्, तथा 'चिरसंसट्ट' न्ति चिरंप्रभूतकालं संसृष्टः - स्वखाम्यादिसम्बन्धेन सम्बद्धो यस्तं, 'चिरपरिचितः ' सहवासनादिना स पूर्वो यस्तम्, उभयत्र | विस्पष्टं पटुर्विस्पष्टपटुरितिवत् सह सुपेत्यत्र सुपेति योगविभागात् समासः, चिरमनुगतमभिप्रायानुवर्तिनमात्मानमिति शेषः, 'ममेत्यात्मनिर्देशः, ततः प्रभूतमोहनीयाच्छादिततया न ते ज्ञानोत्पत्तिरित्यभिप्रायः 'देहस्य तु' शरीरस्य
Jain Education International
For Personal & Private Use Only
द्रुमपत्रक
मध्ययनं .
१०
॥१२२॥
www.jainelibrary.org