________________
उत्तराध्य.
बृहद्वृत्तिः
॥३२०॥
अथ द्रुमपत्रकं दशममध्ययनम् ।
॥ व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम् अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव प्रायो भवति, न च तदुपमां विना स्पष्टमिति प्रथमतः उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम् अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टय मुपदर्श्यते, यावन्नाम निष्पन्न निक्षेपे द्रुमपत्रकमिति द्विपदं नाम, अतो द्रुमस्य पत्रस्य च निक्षेपमाह
निक्खेवोउ दुमंमिचविहो० ॥ २८० ॥ जाग० ॥ २८१ ॥
दुमयाउनामगोयं वेयंतो भावओ दुमो होइ । एमेव य पत्तस्सवि निक्खेवो चउविहो होइ ॥ २८२ ॥
व्याख्या- 'निक्षेपः' न्यासः 'तुः' पूरणे 'द्रुमे द्रुमविषयः 'चतुर्विधः' नामादिः, द्विविधो भवति द्रव्ये आगमतो (नोआगमतश्च स त्रिविधः - ज्ञशरीर भव्यशरीरद्रुमस्तद्यतिरिक्तश्च स पुनस्त्रिविधः - एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, दुमायुर्नामगोत्रं वेदयन् भावतो द्रुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति । गाथात्रयाक्षरार्थः ॥ भावार्थस्तु पूर्ववत्, अन्वर्थनामतामरस्यादर्शयन्नाह -
दुमपत्वम्मं अहाठईए उवक्कमेणं च । इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ २८३ ॥
Jain Education International
For Personal & Private Use Only
द्रुमपत्रक
मध्ययनं .
१०
॥३२०॥
www.jainelibrary.org