SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ RECENERAL अपहाय 'गेहं' गृहं 'वइदेही'त्ति सूत्रत्वाद्विदेहा नाम जनपदः सोऽस्यास्तीति विदेही विदेहजनपदाधिपो, न त्वन्य || एव कश्चिदिति भावः, यद्वा-विदेहेषु भवा वैदेही-मिथिला पुरी, सुब्ब्यत्ययात्तां च त्यक्त्वेति सम्बन्धनीयं, 'श्रामण्ये श्रमणभावे 'पयुपस्थितः' उद्यतः, अभूदिति शेषः, यद्वा-नमिर्नमयति संयम प्रति प्रवणीकरोत्यात्मानं, कीदृशः8||शक्रेण प्रेरितः, कथं ?-साक्षात् खयं, न त्वन्यपार्थप्रहितसन्देशकादिना,श्रामण्ये पर्युपस्थितः, न तु तत्प्रेरणातोऽपि धर्म प्रति विप्लुतोऽभूदितिभाव इति सूत्रार्थः ॥ किमेष एवैवंविधः ? उतान्येऽपीत्याह एवं करिति संबद्धा, पंडिया पवियक्खणा । विणियति भोगेसु, जहा से णमिरायरिसि ॥६२॥ त्तिबेमि ४] व्याख्या-'एवम्' इति यथतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽप्ति कुर्वन्ति, उपलक्षणत्वादकार्पः करिष्यन्ति || च, न त्वयमेव, निदर्शनतयैवास्योपात्तत्वात् , कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति ?-'सम्बुद्धाः' मिथ्यात्वापगमतोऽवगतजीवाजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयतः क्रियां प्रति प्रावीण्यवन्तः, तथाविधाश्च सन्तः किं विदधति ?-'विनिवर्तन्ते' विशेषेण तदासेवनादुपरमन्ति, केभ्यः ?-'भोगेसुत्ति भोगेभ्यः, किहै वत् ?-यथा स 'नमिः' नमिराजर्षिः निश्चलो भूत्वा तेभ्यो निवृत्त इति, यद्वोपदेशपरमेतत् , यत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, एवमिति कथमित्याह-भोगेभ्यो विनिवर्तन्ते, विशेषेण-अत्यन्तनिश्चलतालक्षणेन निवर्तन्ते भोगेभ्यो, यथास 'नमिः'नमिनामा राजर्षिः, ततो भवद्भिरप्येवंविधैरित्थमेव विधेयमिति सूत्रार्थः॥ इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत् । नयाश्च प्राग्वदिति ॥ इति श्रीशान्त्याचा० मुत्तरा०शिष्य नवममध्ययनं समाप्तमिति ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy