________________
कामाः - मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविधवाधाविधायि तथैतेऽपि तत्त्वत एषामपि सदा बाधाविधायित्वात्, तथा वेवेष्टि - व्याप्नोतीति विषं तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो - दंष्ट्रास्तासु विषमस्येत्याशीविषस्तदुपमाः, यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किं च - कामान् 'प्रार्थयमाना' अभिलषन्तोऽपिशब्दस्य लुप्तनिर्दिष्ट - त्वात् प्रार्थयमाना अपि 'अकामा' इष्यमाणकामाभावात् 'यान्ति' गच्छन्ति 'दुर्गतिं' दुष्टां नरकादिगतिं, तदनेन न केवलं | शल्यादिवदनुभूयमाना एवामी दोपकारिणः, किन्तु प्रार्थ्यमाना अपीत्युक्तं भवति । तथा च - ' यः सद्विवेको नासौ | प्राप्तमप्राप्त काङ्क्षया' इत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्त| स्याप्यपायहेतोः तदुच्छेद काप्रात्यर्थं विवेकिभिः परिहियमाणत्वाद्, अनभ्युपगतोपालम्भश्चायं, मुमुक्षूणां क्वचिदाकाङ्क्षाया एवासम्भवात् उक्तं हि - 'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति सूत्रार्थः ॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्ति ?, अत आह—
अहे वय कोहेणं, माणेणं अहमा गई । माया गइपडिग्धाओ, लोहाओ दुहओ भयं ॥ ५४ ॥ व्याख्या- 'अधो' नरकगतौ 'व्रजति' गच्छति 'क्रोधेन' कोपेन, 'मानेन' अहङ्कारेण 'अधमा' नीचा गतिः, भव
Jain Education Inemaronal
For Personal & Private Use Only
wwww.jainelibrary.org