________________
उत्तराध्य.
बृहद्वृत्तिः
॥३१७॥
अच्छेरगमन्भुदए, भोए जहित्तु पत्थिवा !। असंते कामे पत्थेसि, संकप्पेण विहम्मसि ॥५१॥ नमिप्रनव्याख्या-'अच्छेरगति आश्चर्य वर्तते, यत् त्वमेवंविधोऽपि 'अब्भुदए'त्ति अद्भुतकान् आश्चर्यरूपान् ‘भोगान्'
ज्याध्य.९ कामान् 'जहासि' त्यजसि, पठ्यते च-'चयसित्ति, 'पार्थिव !' पृथिवीपते !, पाठान्तरतश्च क्षत्रिय !, अथवा 'अब्भुयए'त्ति अभ्युदये, ततश्च यदभ्युदयेऽपि भोगांस्त्वं जहासि तदाश्चर्य वर्तते, तथा तत्त्यागतश्च ‘असतः' अवि-2
द्यमानान् कामान् 'प्रार्थयसे' अभिलपसि यत्तदप्याश्चर्यमिति सम्बन्धः, अथवाऽधिकस्तवात्र दोषः, 'सङ्कल्पेन' उत्त|रोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' विविधं वाध्यसे, एवंविधसङ्कल्पस्यापर्यवसितत्वाद्, उक्तं हि
"अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृप्ति, विशेषाणामुपागताः ॥१॥” यद्वा । 'अच्छेरगमभुदए'त्ति मकारोऽलाक्षणिकः, ततश्च-आश्चर्याद्भुतयोरेकार्थत्वेऽप्युपादानमतिशयख्यापनार्थम्-अतिशयाद्भुतान् भोगान् जहासि पार्थिव ! असतश्च कामान् प्रार्थयसि यत्तत्सङ्कल्पेनैव उक्तरूपेण विहन्यसे-बाध्यसे, कथं है। ह्यन्यथा विवेकिनस्तवैतत् सम्भवेत् ? । अनेन च यः सद्विवेको नासौ प्राप्तान् विषयानप्राप्ताकाङ्ख्या परिहरति, यथा । ब्रह्मदत्तचक्रवर्त्यादिः, सद्विवेकश्च भवानित्यादिनीत्या हेतुकारणे सूचिते इति सूत्रार्थः ॥ तदनु ‘एय' ५२ सूत्रं प्राग्वत् ।- ॥३१७॥
सलं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थेमाणा, अकामा जंति दुग्गई ।। ५३ ॥ व्याख्या-शलति-देहान्तश्चलतीति शल्य-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यं, के ते?-काम्यमानत्वात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org