________________
नेव मासेऽर्धमासादो वेति, 'यः कश्चिद् ‘वालः' अविवेकः 'कुशाग्रेणैव' तृणविशेषप्रान्तेन भुङ्क्ते, एतदुक्तं भवति६ यावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरति नातोऽधिकम् , अथवा कुशाग्रेणेति जातावेकवचनं, तृतीया तु ओदने-18 नासौ भुत इत्यादिवत् साधकतमत्वेनाभ्यवहियमाणत्वेऽपि विवक्षितत्वात् , 'न' इति निषेधे 'स' इति यः कुशा-18
ले स एवंविधकष्टानुष्ठाय्यपि सुष्टु-शोभनः सर्वसावद्यविरतिरूपत्वादाङिति-अभिव्याया ख्यातः-तीर्थकरादादिभिः कथितः खाख्यातः तथाविधो धर्मो यस्य सोऽयं खाख्यातधर्मा तस्य, चारित्रिण इत्यर्थः, 'कला' भागम् ।
अर्घति' अर्हति, 'षोडशी' पोडशपूरणामित्युक्तं भवति, किं पुनस्तुल्योऽधिको वा ?, षोडशांशसमोऽपि न भवति, ततो यदुक्तम्-'यद्यद् घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयमनशनादिवदिति, अत्र घोरत्वादित्यनैकान्तिको हेतुः, घोरस्यापि । खाख्यातधर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वाद् , अन्यस्य त्वात्मविघातादिवत् , अन्यथात्वात् , प्रयोगश्चात्र-यत् खाख्या-1 तधर्मरूपं न भवति घोरमपि न तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽऽत्मवधादिः, तथा च गृहाश्रमः, तद्रूपत्वं चास्य सावद्य-8 त्वादिसावदित्यलं प्रसङ्गेन । शेष प्राग्वदिति सूत्रार्थः ॥ 'एय'४५ सूत्रं प्राग्वत् । नवरं यतिधर्मे दृढोऽयमिति निश्चित्य
दुरन्तोऽयमभिष्वङ्ग इति तदभावं परीक्षितमपि पुनः परीक्षितुमिदमिन्द्र उवाच|| हिरणं सुवणं मणिमोतं, कंसं दूसं च वाहणं । कोसं च वड्डइत्ता णं, तओ गच्छसि खत्तिया! ॥४६॥
व्याख्या-'हिरण्यं' वर्ण 'सुवर्ण' शोभनवर्ण' विशिष्टवर्णिकमित्यर्थः, यद्वा हिरण्यं-घटितवर्णमितरत्तु सुवर्ण,
JainEducation
For Personal & Private Use Only
Jainelibrary.org