SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वत्तिः ज्याध्य.९ ॥३१५॥ MOREXXXMMS व्याख्या-'घोरः' अत्यन्तदुरनुचरः, स चासावाश्रमश्च आङिति-खपरप्रयोजनाभिव्याप्त्या श्राम्यन्ति-खेदमनु- नमिप्रवभवन्त्यस्मिन्नितिकृत्वा घोराश्रमो-गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात् , यत आहुः-"गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः ॥१॥" तं 'त्यक्ला' अपहाय 'जहित्ता णं'ति क्वचित् | पाठः, तत्र च हित्वा-'अन्यत्' एतद्व्यतिरिक्तं कृषिपाशुपाल्यादि अशक्तकातरजनातिनिन्दितं 'प्रार्थयसे' अभिलषसि, |आश्रम' प्रव्रज्यालक्षणं, नेदं क्लीवसत्त्वानुचरितं भवादृशानामुचितमित्यभिप्रायः । तर्हि किमुचितमित्याह-'इह' | अस्मिन्नेव गृहाश्रमे, स्थित इति गम्यते, पोषं-धर्मपुष्टिं धत्त इति पोषधः-अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतः|आसक्तः पोषधरतः ‘भवाहित्ति भव, अणुव्रताधुपलक्षणमेतद्, अस्यैव चोपादानं पोषधदिनेष्ववश्यंभावतस्तपोऽनु-|| ठानख्यापकं, यत आह आससेनः-"सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतं पोषधं| वसेद् ॥ १॥” इति 'मनुजाधिप !' नृपते !। अत्र च घोरपदेन हेतुराक्षिप्तः, तथाहि-यद्यद् घोरं तत्तद् धर्मा|र्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः, शेषमेतदनुसारतोऽभ्यूह्यमिति सूत्रार्थः ॥ ततश्च–'एय' सूत्रं । ॥४३॥ प्राग्वत्।मासे मासे उ जो बालो, कुसग्गेणं तु भुंजइ । न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥ व्याख्या-मासे मासे' इति वीप्सायां द्विवचनं, 'तुः' इहोत्तरत्र चैवकारार्थः, ततश्च मासे मास एव, न त्वेकस्मि ॥३१५॥ Jain Education International For Personal & Private Use Only Tww.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy