SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ विधस्स दातुर्यदि कथञ्चिचारित्रमोहनीयक्षयोपशमेन 'संयमः' आश्रयादिविरमणात्मकः स्यात् तदा स एव 'श्रेयान् । अतिशयप्रशस्यः, कथंभूतस्यापि ?-'अददतोऽपि' अयच्छतोऽपि 'किञ्चन' खल्पमपि वस्तु, यद्वा 'तस्सावित्ति तस्मादप्युक्तरूपाहातुरवधित्वेन विवक्षितात्, संयच्छति-प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु । दर्शनादिति संयमः-संयमवान् , साधुरित्यर्थः, श्रेयान्' प्रशस्यतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदानधर्मात् । संयमः' उक्तरूपः श्रेयान् , शेषं पूर्ववत् , गोदानं चेह यागाद्युपलक्षणम् , अतिप्रभूतजनाचरितमित्युपात्तम् , एवं च । संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वमर्थादावेदितं, तथा च यज्ञप्रणेतृभिरुक्तम्-“षट् शतानि र नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥ १॥” इयत्पशुवधे च कथमसावद्यता नाम ?, तथा दानान्यप्यशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह-"अशनादीनि दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ॥ १॥" शेषाणि तु सुवर्णगोभू| म्यादीनि प्राण्युपमर्दहेतुतया सावद्यान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धं । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः, प्रयोगश्च-यत्सावधं न तत प्राणिप्रीतिकरं, यथा हिंसादि.सावधानि च यागादीनि इति सूत्रार्थः ॥ 'एयम? 5/४१ सूत्रं प्राग्वत् । नवमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थ शक्र इदमवादीत् घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा !॥४२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy