SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ cont -ALMORA शतसहस्रजयात् 'परमः' प्रकृष्टः 'जयः' परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्वमुक्तं, तथा च-'अप्पाणमेव'त्ति तृतीयार्थे द्वितीया, ततश्चाऽऽत्मनैव सह 'युध्यख' सङ्ग्रामं कुरु, यद्वा युद्धेरन्तर्भावितण्यर्थत्वात् युध्यखेति यो यस्व, कम् ?-आत्मानं, इहाप्यात्मनैव सहेति शेषः, किं ?, न किञ्चिदित्यर्थः, 'ते' तव 'युद्धेन' सङ्ग्रामेण, 'बाह्यत' इति बाह्यं पार्थिवादिकमाश्रित्य, यदिवा बाह्यत इति तृतीयाथै तसिः, ततो बाह्येन युद्धेनेति सम्बध्यते, एवं च ।। अप्पाणमेव'त्ति आत्मनैवान्यव्यतिरिक्तेनाऽऽत्मानं स्वं 'जइत्तति जित्वा 'सुखम्' ऐकान्तिकात्यन्तिकमुक्तिसुखात्मकम् ‘एधते' इत्यनेकार्थत्वाद्धातूनां प्राप्नोति, अथवा 'सुहमेहए'त्ति शुभं-पुण्यमेधते-अन्तर्भावितण्यर्थत्वात् वृद्धिं नयति। कथमात्मन्येव जिते सुखावाप्तिरित्याह-'पञ्चेन्द्रियाणि' श्रोत्रादीनि 'क्रोधः' कोपः 'मानः' अहङ्कारः 'माया' निकृतिः तथैव 'लोभश्च' गायलक्षणः 'दुर्जयः' दुरभिभवः, 'चः समुच्चये, 'एवं' इति पूरणे, अतति-सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः आत्मा-मनः, सर्वत्र च सूत्रत्वात् नपा निर्देशः, 'सर्वम्' अशेषमिन्द्रियादि, उपलक्षणत्वान्मिथ्यात्वादि च, 'आत्मनि' जीवे 'जिते' अभिभूते 'जित'मिति अभिभूतमेव । ननु मनसि जिते । जितान्येवेन्द्रियादीनीति किं पृथक तजयाभिधानेन ?, सत्यं, तथापि प्रत्येकं दुर्जयत्वख्यापनाय पृथगुपन्यास इत्यदोषः, यद्वा-'दुजयं चेव अप्पाणं ति चकारो हेत्वर्थः, “एवः' अवधारणे भिन्नक्रमश्च आत्मशब्दादनन्तरं द्रष्टव्यः, १ नपुंसकत्वेनेत्यर्थः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy