SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ CLICRO कारिषु सत्सु 'नगरस्य' पुरस्य 'क्षेमं' सुस्थं 'कृत्वा' विधाय 'ततः' तदनन्तरं गच्छ क्षत्रिय !, एतेनापि यः सधर्मा ।। नृपतिः स इहाधर्मकारिनिग्रहकृत् , यथा भरतादिः, सधर्मनृपतिश्च भवानित्यादिहेतुकारणसूचना कृतैवेति सूत्रार्थः ॥ इत्थं शक्रोक्तो 'एय' २९ सूत्रं प्राग्वत् । असई तु मणुस्सेहि, मिच्छादंडो पउंजइ । अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो॥३०॥ व्याख्या-'असकृद्' अनेकधा, 'तुः' एवकारार्थः, ततश्चासकृदेव 'मनुष्यैः' मनुजैः 'मिथ्या' व्यलीकः, किमुक्तं |भवति ?-अनपराधिष्वज्ञानाहङ्कारादिहेतुभिरपराधिष्विव दण्डनंदण्डः-देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापा येते, कथमिदमित्याह-'अकारिणः' आमोषाधविधायिनः 'अत्र' इत्यस्मिन् प्रत्यक्षत उपलभ्यमाने मनुष्यलोके 'बध्यन्ते' || निगडादिभिर्नियन्यन्ते 'मुच्यते' त्यज्यते 'कारकः' विधायकः, प्रकृतत्वादामोषणादीनां, 'जनः' लोकः, तदनेन यदुक्तं || प्राग्-'आमोषकाद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छेति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तं, ३| यत्तु यः सधर्मेत्यादि' सूचितं, तत्रापरिज्ञानतोऽनपराधिनामपि दण्डमादधतां सधर्मनृपतित्वमपि तावचिन्त्यमित्यसिद्धता हेतोरिति सूत्रार्थः ॥ 'एय' ३१ सूत्रं प्राग्वत्, नवरमियता स्वजनान्तःपुरपुरादिप्रासादनृपतिधर्मविषयः किमस्याभिष्वङ्गोऽस्ति ? नेति वेति विमृश्य सम्प्रति द्वेषाभावं विवेत्तुमिच्छुर्विजिगीषुतामूलत्वात् द्वेषस्य तामेव परीक्षितुकामः शक्र इदमुक्तवान् R E -% dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy