________________
नमिप्रव
बृहद्वृत्तिः
ज्याध्य.९
उत्तराध्य.|| प्रागुक्तहेतोरसिद्धत्वमुक्तम् , तत्त्वतो ज्ञानादिव्यतिरिक्तस्य सर्वस्याखकीयत्वादित्यादिचर्चः प्राग्वदिति सूत्रार्थः ॥ एतदेव
च भावयितुमाह
चत्तपुत्तकलत्तस्स, निव्वाचारस्स भिक्खुणो। पियं न विजई किंचि, अप्पियंपि न विजह ॥१५॥ ॥३१०॥ बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो। सव्वतो विप्पमुक्कस्स, एगंतमणुपस्सओ॥१६॥
व्याख्या-त्यक्ताः-परिहताः पुत्राश्च-सुताः कलत्राणि च-दारा येन स तथा तस्य, अत एव 'निर्व्यापारस्य' है परिहृतकृषिपाशुपाल्यादिक्रियस्य 'भिक्षोः' उक्तरूपस्य 'प्रियम्' इष्टं न विद्यते' नास्ति 'किञ्चिद्' अल्पमपि, 'अप्रिय
मपि' अनिष्टमपि न विद्यते' नास्ति, प्रियाप्रियविभागास्तित्वे हि सति पुत्रकलत्रत्यागं न कुर्यादेव, तयोरेवातिप्रतिबन्धविषयत्वादिति भावः, एतेन यदुक्तं-नास्ति किञ्चनेति तत्समर्थितं, तत् खकीयत्वं हि पुत्राद्यत्यागतोऽभिप्वङ्गतः स्यात् स च निषिद्ध इति, एवमपि कथं सुखेन वसनं जीवनं वेत्याह-'बहु' विपुलं 'खुः' अवधारणे, बह्वेव 'मुनेः' तपखिनः 'भद्रं' कल्याणं सुखं वा 'अनगारस्य' 'भिक्षोः' इति च प्राग्वत्, 'सर्वतः' बाह्यादभ्यन्तराच, यद्वाखजनात् परिजनाच 'विप्रमुक्तस्य' इति पूर्ववत् , 'एकान्तम्' 'एकोऽहमित्याधुक्तरूपैकत्वभावनात्मकम् 'अनुपश्यतः'। पर्यालोचयत इति सूत्रद्वयार्थः ॥ पुनरपि 'एय' सूत्रं प्राग्वत् (१७)
पागारं कारइत्ता णं, गोपुरहालगाणि य । उस्मृलए सयग्घी य, ततो गच्छसि खत्तिया!॥१८॥
SAGARCHCARECRUGSAX
॥३१०॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org