SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ एस अग्गी अ वाओ अ, एयं डज्झति मंदिरं। भगवं! अंतेउरंतणं, कीस णं नावपिक्खह ॥१२॥ KI व्याख्या-'एप' इति प्रत्यक्षोपलभ्यमानः 'अग्निश्च' वैश्वानरः वातश्च' पवनस्तथा 'एतदिति प्रत्यक्षं 'दह्यते' भस्म६ सात् क्रियते, प्रक्रमाद्वातेरितेनाग्निनैव, 'मन्दिर' वेश्म, भवत्सम्बन्धीति शेषः, भगवन्निति पूर्ववद्, 'अन्तेउरतेणं'ति है अन्तःपुराभिमुखं 'कीसत्ति कस्मात् ? 'णम्' इति वाक्यालङ्कारे 'नावप्रेक्षसे' नावलोकसे । इह च यद्यदात्मनः स्वं तत्तद्रक्षणीयं, यथा ज्ञानादि, स्वं चेदं भवतोऽन्तःपुरमित्यादिहेतुकारणभावना प्राग्वदिति सूत्रार्थः ॥ ततश्च 'एयं' | सूत्रं (१३) प्राग्वत् ॥ किमब्रवीत् ? इत्याह| सुहं वसामो जीवामो, जेसि मो नत्थि किंचणं । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ १४ ॥ | व्याख्या-'सुखं' यथा भवत्येवं 'वसामः' तिष्ठामः 'जीवामः' प्राणान् धारयामः, येषां 'मो' इत्यस्माकं 'नास्ति' न विद्यते 'किञ्चन' वस्तुजातं, यतः- एकोऽहं न च मे कश्चित् , खपरो वाऽपि विद्यते । यदेको जायते जन्तुम्रियतेऽप्येक एव हि ॥१॥” इति न किञ्चिदन्तःपुरादि मत्सत्कं, यतश्चैवमतो 'मिथिलायाम्' अस्यां पुरि दह्यमानायां है न मे दह्यते 'किञ्चन' खल्पमपि, मिथिलाग्रहणं तु न केवलमन्तःपुरायेव न मत्सम्बन्धि किन्त्वन्यदपि खजनजनादि खस्वकर्मफलभुजो हि जन्तवः तथा तथाऽस्मिन् भ्राम्यन्तीति किमत्र कस्य स्वं परं चेति ख्यापनार्थं । ततश्चानेन Jain Education A ional For Personal & Private Use Only ww.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy