________________
स
मिहिलाए चेइए वच्छे, सीतच्छाए मणोरमे । पत्तपुप्फफलोवेते, बहूणं बहुगुणे सता ॥१०॥ व्याख्या-मिथिलायां पुरि चयनं चितिः-इह प्रस्तावात् पत्रपुष्पाद्युपचयः, तत्र साधुरित्यन्ततः प्रज्ञादेराकृतिगणत्वात् खार्थिकऽणि चैत्यम्-उद्यानं तस्मिन्, 'वच्छे'त्ति सूत्रत्वाद्धिशब्दलोपे वृक्षः शीता-शीतला छाया यस्य तच्छीतच्छायं तस्मिन् , मनः-चित्तं रमते-धृतिमाप्नोति यस्मिन् तन्मनोरम-मनोरमाभिधानं तस्मिन्, प लानि प्रतीतानि तैरुपेतं-युक्तं पत्र पुष्पफलोपेतं तस्मिन् , 'बहूनां प्रक्रमात् खगादीनां, बहवो गुणा यस्मात्तत् तथा तस्मिन् , कोऽर्थः?-फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः ॥ तत्र किमित्याह
वाएण हीरमाणंमि, चेइयंमि मणोरमे । दुहिया असरणा अत्ता, एए कंदति भो! खगा ॥१०॥ व्याख्या-वातेन' वायुना 'हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदायः, चितिरिहेष्टकादिचयः, तत्र साधुः-योग्यश्चित्यः प्राग्वत् , स एव चैत्यस्तस्मिन् , किमुक्तं भवति ?-अधोबद्धपीठिके उपरि चोच्छ्रितपताके 'मनोरमे' मनोऽभिरतिहेतो, वृक्ष इति शेष रहिता अत एव 'आर्ताः' पीडिताः 'एते' प्रत्यक्षाः 'क्रन्दन्ति' आक्रन्दशब्दं कुर्वन्ति 'भो' इत्यामन्त्रणे 'खगाः' पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत्खजनजनाक्रन्दनमुक्तं तत् खगक्रन्दन१ साक्षादाकृतिगणत्वेनानुक्तेः
Jain Education initional
For Personal & Private Use Only
www.jainelibrary.org