________________
उत्तराध्य. मिति एतावन्मात्रं कारणम्, अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थं, तथा चाह श्रुतके- नमिप्रवबृहद्धत्तिः वली-'कत्थवि पंचावयवं दसहा वा सबहा ण पडिसिद्धं । ण य पुण सत्वं भण्णइ हंदी सवियारमक्खायं ॥१॥"
ज्याध्य.९ तथा-"जिणवयणं सिद्धं चेव भण्णती कत्थती उदाहरणं । आसज्ज उ सोयारं हेऊवि कहिंचि वोत्तत्वो ॥२॥" ॥३०८॥ अथवाऽन्वयव्यतिरेकलक्षणो हेतुः, उपपत्तिमात्रं तु दृष्टान्तादिरहितं कारणं, यथा निरुपमसुखः सिद्धो ज्ञानानाबा-2
धप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवात् नोदाहरणमस्ति, दृष्टान्तश्च प्रकृष्टमत्यादिज्ञानानाबाधाः परमसुखिनो ६ मुनय इति ज्ञानानाबाधप्रकर्षः निरुपमसुखत्वे हेतुरुच्यते, तथा च पूज्याः-"हेतू अणुगमवइरेगलक्खणो सज्झ-2
वत्थुपज्जातो। आहरणं दिलैंतो कारणमुववत्तिमत्तं तु ॥१॥" इह हि आक्रन्दादिदारुणशब्दहेतुत्वमेव हेतुः, तस्सोक्तन्यायेनान्वयान्वितत्वात्, सति चान्वये व्यतिरेकस्यापि सम्भवात्, इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुप/पत्तिमात्रं कारणम्, एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन, प्रकृतमेव सूत्रमनुत्रियते, 'ततः' प्रेरणाऽनन्तरं 2 'नमिः' नमिनामा राजर्षिः 'देवेन्द्र' शक्रम् 'इदं' वक्ष्यमाणम् 'अब्रवीत् उक्तवानिति सूत्रार्थः ॥ किं तदुक्तवानित्याह। १ कुत्रापि पञ्चावयवं दशधा वा सर्वथा न प्रतिषिद्धम् । न च पुनः सर्व भण्यते हन्दि सविचारमाख्यातम् ॥ १॥ जिनवचनं सिद्धमेव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि कुत्रचिद्वक्तव्यः ॥ २ ॥२ हेतुरनुगमव्यतिरेकलक्षणः साध्यवस्तुपयोयः || आहरणं दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ १॥
CLERKARYA
॥३०८॥
KA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org