________________
सम्बन्धः,
| हलकेन - बहलकलकलात्मकेन सङ्कुलाः - व्याकुलाः कोलाहलकसंकुलाः 'श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति , ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तन्निराकरणायाह — दारयन्ति जनमनांसीति दारुणाः - विल| पिताऽऽक्रन्दितादयः, क्व पुनस्ते ? - 'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु, यद्वा 'प्रासादो देवतानरेन्द्राणा'मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्बन्धिष्वास्पदेषु 'गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति | सूत्रार्थः ॥ ततश्च -
एयम निसामित्ता, उकारणचोइओ । ततो णमी रायरिसी, देविंदं इणमब्बवी ॥ ९ ॥
व्याख्या – 'एनम् ' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनिं 'निशम्य' आकर्ण्य हिनोति - गमयति विवक्षितमर्थमिति हेतु:, स च पञ्चावयववाक्यरूपः कारणं च - अन्यथाऽनुपपत्तिमात्रं ताभ्यां चोदितः - प्रेरितः हेतु| कारणचोदितः, कोलाहलकसङ्कला दारुणाः शब्दाः श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि - अनुचितमिदं |भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः प्राणव्यपरोपणादिवदिति दृष्टान्तः, | यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवं वाक्यमिह हेतुः, शेषावयवविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपन्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org