SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ | व्याख्या-'मिथिलां' मिथिलानाम्नी नगरी, सह पुरैः-अन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता तां न त्वेकामेव, 'बलं' हस्त्यश्वादि चतुरङ्गम् 'अवरोधं च अन्तःपुरं 'परिजनं परिवर्ग 'सर्व' निरवशेष, न तु तथाविधप्रतिबन्धानास्पदं किञ्चिदेव 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रव्रजितः, 'एगंतत्ति एक:-अद्वितीयः कर्मणामन्तो यस्मिनिति, मयूरव्यंसकादित्वात् समासः, तत एकान्तो-मोक्षस्तम् 'अधिष्ठितः' इव आश्रितवानिवाधिष्ठितः, तदुपाय-17 सम्यग्दर्शनाद्यासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवाः, यद्वैकान्तं-द्रव्यतो विजनमुद्यानादि भावतश्च सदा "एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासी दृश्योऽस्ति यो मम ॥१॥” इति भावनात एक एवाहमित्यन्तो-निश्चय एकान्तः, प्राग्वत् समासः, तमधिष्ठितः, 'भगवान्' इति धैर्यवान् श्रुतवान् । वेति सूत्रार्थः ॥ तत्रैवमभिनिष्कामति यदभूत्तदाह-यदिवा यदुक्तं सर्वं परित्यज्याभिनिष्क्रान्त' इति, तत्र कीदृक् । तत् त्यज्यमानमासीदित्साह|| कोलाहलगभूतं आसी मिहिलाए पव्वयंतंमि । तइया रायरिसिम्मि नमिम्मि अभिनिक्खमंतमि ॥५॥ व्याख्या-कोलाहला-विलपिताऽऽक्रन्दितादिकलकलः कोलाहल एव कोलाहलकः स भूत इति-जातो यस्मिंस्तत् । कोलाहलकभूतम् आहितादेराकृतिगणत्वान्निष्ठान्तस्य परनिपातः, यदिवा भूतशब्द उपमार्थः, ततः-कोलाहलकभूतमिति कोलाहलकरूपतामिवापन्नं हा तात! मातरित्यादिकलकलाकुलिततया 'आसीत् अभूत् मिथिलायां, सर्व गृह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy