________________
उत्तराध्य.
बृहद्वृत्तिः
॥३०॥
अनुत्तरे' प्रधाने 'धर्म' चारित्रधर्मे 'पुत्र' सुतं 'स्थापयित्वा' निवेश्य, क ?-राज्ये 'अभिनिष्क्रामति' धर्माभिमुख्येन है। नमिप्रनगृहस्थपर्यायान्निर्गच्छति, स्मेतीहापि शेषः, ततश्च प्रत्रजितवानित्यर्थः, प्राग्वत् तिडव्यत्ययेन वा व्याख्येयं, 'नमिः
ज्याध्य.९ नमिनामा राजा पृथिवीपतिरिति सूत्रार्थः ॥ स्यादेतत्, कुत्रावस्थितः कीदृशान् वा भोगान् भुक्त्वा सम्बुद्धः? किं वाऽभिनिष्क्रामन् करोतीत्साह
सो देवलोगसरिसे अंतेउरवरगतो वरे भोए । भुंजित्तु णमी राया बुद्धो भोगे परिचयइ ॥३॥ व्याख्या-'सः' इत्यनन्तरमुद्दिष्टः 'देवलोगसरिसे'त्ति देवलोकभोगैः सदृशा देवलोकसदृशाः, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'अंतउरवरगतो'त्ति वरं-प्रधानं तच तदन्तःपुरं च वरान्तःपुरं तत्र गतः-स्थितो वरान्तःपुरगतः, प्राकृतत्वाच वरशब्दस्य परनिपातः, वरान्तःपुरं हि रागहेतुरिति तद्गतस्य तस्य भोगपरित्यागाभिधानेन जीववीर्योल्लासातिरेक उक्तः, तत्रापि कदाचिद्वराः शब्दादयो न स्युः तत्सम्भवे वा सुबन्धुरिव कुतश्चिनिमित्तान्न भुञ्जीतापीत्याह-वरान्' प्रधानान् ‘भोगान्' मनोज्ञशब्दादीन् 'भुक्त्वा' आसेव्य 'नमिः' नमिनामराजा 'बुद्धः' विज्ञाततत्त्वः ‘भोगान्' उक्तरूपान् परित्यजति, स्मेति शेषः । इह पुनर्भोगग्रहणमतिविस्मरणशीला अप्यनुग्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थः॥ किं भोगानेव त्यक्त्वाऽभिनिष्क्रान्तवान् ? उतान्यदपीत्साहमिहिलं सपुरजणवयं बलमोरोहं च परियणं सव्वं । चेचा अभिनिक्खंतो एगंतमहिडिओ भयवं ॥४॥
। इह पुनर्भोगग्रहणमा नमिनामराजा 'बुद्धः।
थः ॥ किं भोगानेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org