SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्यावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमु चारणीयं, तचेदम्8 चइऊण देवलोगाओ उववश्नो माणुसंमि लोगंमि । उघसंतमोहणिज्जो सरती पोराणियं जाइं ॥१॥ व्याख्या-च्युक्त्वा 'देवलोकात' प्रतीतात् , 'उत्पन्नः' जातः 'मानुषे मानुषसम्बन्धिनि 'लोके' प्राणिगणे उपशान्तम्-अनुदयं प्राप्त मोहनीयं-दर्शनमोहमीयं यस्यासावुपशान्तमोहनीयः ‘स्मरति चिन्तयति, स्मेति शेषः, वर्तमाननिर्देशो वा प्राग्वत्, कामित्याह-पोराणियंति पुराणामेव पौराणिकी, विनयादित्वात् ठक, चिरन्त1 नीमित्यर्थः, 'जातिम्' उत्पत्तिं, देवलोकादाविति प्रक्रमः, तगतसकलचेष्टोपलक्षणं चेह जातिरिति सूत्रार्थः ॥ ततः | किमित्याह___ जाहं सरित्तु भयवं सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे अभिनिक्खमति नमी राया ॥२॥ | व्याख्या-जातिम' उक्तरूपां स्सत्वा. भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, यदुक्तं-"धैर्यसौभाग्यमा-1 हात्म्ययशोऽर्कश्रुतधीश्रियः । तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः ॥ १॥” इति, तथापीह प्रस्तावाद्बुद्धिवचन ४ एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान् , सहत्ति-खयमात्मनैव सम्बुद्धः-सम्यगवगततत्त्वः सहसम्बुद्धो, नान्येन प्रतिबोधित इत्यर्थः, अथवा 'सहस'त्ति आर्षत्वात् सहसा-जातिस्मृत्यनन्तरं झगित्येव बुद्धः, केत्याह Jain Education The national For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy