________________
खप्नदर्शनम् , अभूदिति शेषः, कः?, यः 'अहिमंदर'त्ति अहिमन्दरयोः नागराजाचलराजयोः 'नंदिघोसे यत्ति' द्वादशतूर्यसङ्घातो नन्दी तस्या घोषः, स च खप्नमवलोकयतो जातः, तेन चासौ प्रतिबोधितः इत्युपस्कारः । इह च है मिथिलापति मिरित्युक्तौ मा भूत्तथाविधस्य तीर्थकरस्यापि नमेः सम्भवायामोह इति 'द्वौ नमी वैदेही' इत्याद्युक्तं ।। तथा 'पुप्फुत्तरातो'त्ति पुष्पोत्तरविमानाच्यवनं-भ्रंशनम्, एकसमयेनेति योज्यते, प्रव्रज्या च-निष्क्रमणं भवत्येकसमयेनैव, तथा प्रत्येकम्-एकैकं हेतुमाश्रित्य 'बुद्धाः' अवगततत्त्वाः प्रत्येकबुद्धाः, 'केवलिनः' उत्पन्नकेवलज्ञानाः, सिद्धिगताः' मुक्तिपदप्राप्ताः, त्रयाणामपि कर्मधारयः, एकसमयेनैवेति चतुर्णामपि समसमयसम्भवात् । तथा 'सेयं । सुजाय'ति श्वेतं वर्णतः सुजातं प्रथमत एवाहीनसमस्ताङ्गोपाङ्गतया, सुष्टु-शोभने विभक्त-विभागेनावस्थिते शृङ्गे|| विषाणे यस्य स तथा तम् , ऋद्धिं-बलोपचयात्मिकाम् अनृद्धिः-तस्यैव बलापचयतस्तर्णकादिपरिभवरूपां 'समुपेहिया ण' ति सम्यगुत्प्रेक्ष्येति-पर्यालोच्य पाठान्तरतः 'समुत्प्रेक्षमाणो वा कलिङ्गराजोऽपीत्यत्रापिशब्द उत्तरापेक्षया समुच्चये। तथा 'इन्द्रकेतुम्' इन्द्रध्वज 'प्रविलुप्यमान' मिति जनः खखवस्त्रालङ्कारादिग्रहणतः इतश्चेतश्च विक्षिप्यमाणं । तथा 'पूरावरेयंत्ति पूरः-पूर्णता अवरेको-रिक्तताऽनयोः समाहारे पूरावरकं । तथा 'समञ्जरीपल्लवपुप्फचित्तं' सह मञ्जरीभिः-प्रतीताभिः पल्लवैश्च-किशलयैर्यानि पुष्पाणि-कुसुमानि तैश्चित्र:-कधुरः मञ्जरीपलवपुष्पचित्रस्तं, यद्वा सहम-है। अरीपल्लवपुष्पैर्वर्तते यः स तथा चित्र-आश्चर्योऽनयोर्विशेषणसमासः, समिक्ख'त्ति आर्षत्वात् समीक्षते पर्यालोचयति,
For Personal & Private Use Only
Jain Education inte
www.jainelibrary.org