SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ एतत्खरूपं च प्राग्वत् , तथा नम्यायुर्नामगोत्रं वेदयन् भावतो नमिर्भवति, 'तस्य' नमेः 'खलु' इति वाक्यालङ्कारे, 'प्रव्रज्या' वक्ष्यमाणखरूपा, इहाभिधीयत इत्युपस्कारः, अतश्च 'नमिप्रवज्येति नमिप्रव्रज्याख्यमिदमध्ययनमेव प्रस्तुतमुच्यत इति शेषः, प्रव्रज्यानिक्षेपश्चतुर्विधो नामादिः, नामस्थापने प्राग्वत् , अन्यानि च तान्यनहत्प्रणीततीर्थादन्य-३ त्वेन तीर्थानि च-निजनिजाभिप्रायेण भवजलधेः तरणं प्रति करणतया विकल्पितत्वेनान्यतीर्थानि तेषु भवा अन्यती. |र्थिकाः, अध्यात्मादेराकृतिगणत्वाट्टक,तेच शाक्यसरजस्कादयः, 'द्रव्ये विचार्य, प्रव्रज्येति सम्बन्धः, प्रव्रज्यायोगाच्च त एव प्रव्रज्येत्युच्यते, यथा दण्डयोगात् पुरुषोऽपि दण्ड इति, इह चान्यतीर्थिकशब्देन विवक्षितभावविकलतैव सूचिता, ततोऽन्यतीर्थ्याः खतीर्थ्या वा प्रव्रज्यापर्यायशून्या द्रव्यप्रव्रज्येति भण्यन्ते, अत एवाह-भावे तु विचार्यमाणे ६ प्रव्रज्या आरम्भश्च-पृथिव्याधुपमर्दः परिग्रहश्च-मूर्छा आरम्भपरिग्रहौ तयोस्त्यागः-परिहारः आरम्भपरिग्रहत्यागः, तीन तु बहिर्वेषधारणाद्येवेति गाथाचतुष्टयार्थः ॥ इह च यद्यपि नमिप्रव्रज्यैव प्रक्रान्ता, तथापि यथाऽयं प्रत्येकबुद्धस्त थाऽन्येऽपि करकण्डादयस्त्रयस्तत्समकालसुरलोकच्यवनप्रव्रज्याग्रहणकेवलज्ञानोत्पत्तिसिद्धिगतिभाजः इति प्रसङ्गतो पिनेयवैराग्योत्पादनार्थ तद्वक्तव्यतामपि विवक्षुरिदमाह नियुक्तिकृत्करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो । नमीराया विदेहेसु, गंधारेसु य नग्गई ॥ २६४ ॥ वसभे अ इंदकेऊ वलए अंबे अ पुप्फिए बोही। करकंडु दुम्मुहस्सा नमिस्स गंधाररणो अ ॥२६५॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy