________________
Jain Education 1
त्ति आर्षत्वात् मनसा वचसा कायेन, चशब्दः शेषभङ्गोपलक्षकः, ततश्थ - यथा मनसा वचसा कायेन च दण्डं नारभते तथा नाऽऽरम्भयेत् न चारभमाणानप्यन्याननुमन्येत, 'एवः' अवधारणे भिन्नक्रमश्च, अत एव नो इत्यस्यानन्तरं योजितः, पठ्यते च - 'जगणिस्सियाण भूगाणं, तसाणं थावराण य । णो तेसिमारभे दंडं' ति गतार्थमेव, अपरे तु 'जगणिस्सिएही 'त्यादि तृतीयान्ततयैवाधीयते, तत्र च जगन्निश्रितैर्भूतैखसैः स्थावरैश्च हन्यमानोऽपीति शेषः, नैव तेष्वारभेत दण्डम्, उज्जयनीश्रावकपुत्रवत्, अत्र च सम्प्रदायः- उज्जेगीए सावगमुतो चोरेहिं हरिजं मालव के सूयगारस्स हत्थे विकीतो, लावगे मारयसु, ण मारयामीति हत्थीपादत्तासणसी सारक्खणं करणं चेति । स एवं प्राणत्यागेऽपि सत्त्वानपरोवी, एवमन्यैरपि यतितव्यमिति सूत्रार्थः ॥ उक्तका मूलगुणाः सम्प्रत्युत्तरगुणा तेष्वप्येषणासमितिः प्रधानेति तामाह
वाच्याः,
सुडेसणा उ णच्चा णं तत्थ ठवेज भिक्खू अप्पाणं । जाताए घासमेसिजा रसगिडे न सिया भिक्खाए ११ व्याख्या - शुद्धाः -शुद्धिमत्यो दोषरहिता इत्यर्थः, ताश्च ता एवणाश्च - उद्गमेवणाद्याः शुद्धैषणाः, एषणाः सप्त संस्पृ| टाद्याः, तद्यथा - 'संसठ्ठम संसट्टा उद्घड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झिवधम्माय सत्तमिय ॥ १ ॥ 'ति
१ उज्जयिन्यां श्रावकसुतश्चौरैर्हृत्वा मालव के सूपकाराणां हस्ते विक्रीतः, पारापतान् मारय, न मारयामीति हस्तिपादत्रासनं शीर्षरक्षणं करणं च । २ संसृष्टाऽसंसृष्टोद्धृता तथाऽललेपा चैव । अवगृहीता प्रगृहीतोज्झितधर्मा च सतमिका ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org