SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय ' चत्तारि विचित्तारं विगईणिज्जूहियाई' इत्यादिसंलेखना विधिः पानकादिविधिश्व तत्र तत्राभिहितः, | दर्शनमालिन्यं चोभयत्रेत्याशङ्कयाह - 'एते' अनन्तरोक्ते 'द्वे अपि' गृपृष्ठवैहायसाख्ये मरणे 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनृपानुमृततथाविधाचार्यवत् अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन |च सम्प्रदायानुसारितां दर्शयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥ २२४ ॥ साम्प्रतम - न्त्यमरणत्रयमाह भत्तपरिण्णा इंगिणी पाओवगमं च तिण्णि मरणाई । कन्नसमज्झिमजेा धिइसंघयणेण उ विसिट्ठा २२५ व्याख्या - भक्तं - भोजनं तस्य परिज्ञा - ज्ञपरिज्ञयाऽनेकधेदमस्माभिर्भुक्त पूर्वमेतद्धेतुकं चावद्यमिति परिज्ञानं प्रत्याख्यानपरिज्ञया च "सेवं च असणपाणं चउन्विहं जा य बाहिरा उवही । अभितरं च उवहिं जावज्जीवं च वोसिरे ||| १ ||" इत्यागमवचनाच्चतुर्विधाहारस्य वाँ यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इज्यते - प्र - | तिनियतप्रदेश एव चेष्ट्यते अस्यामनशनक्रियायामितीङ्गिनी, पादैः - अधःप्रसप्पिमूलात्मकैः पिवति पादपो-वृक्षः, उप१ चत्वारि विचित्राणि निर्व्यूढविकृतीनि । २ सर्वं चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चोपधिं यावज्जीवं च व्युत्सृजति । | ३ वाशब्दः पूर्वगाथोक्तसोपध्याहारत्यागसूचार्थः । Jain Education Monal For Personal & Private Use Only jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy