SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. लिनः-उत्पन्नकेवलाः सकलकर्मापुद्गलपरिशाटतो नियन्ते तज्ज्ञेयमिति शेषः, उभयत्राभेदनिर्देशःप्राग्वदिति गाथार्थः अकाम M॥ २२३ ॥ साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाहबृहद्वृत्ति गिद्धाइभकखणं गिद्धपिट्र उब्बंधणाइ वेहासं । एए दुन्निवि मरणा कारणजाए अणुण्णाया ॥ २२४ ॥ मरणाध्य. ॥२३४॥ व्याख्या-'गृद्धाः' प्रतीतास्ते आदिर्येषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्त्वादात्मनः तदनिवारणादिना 8 तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणं, तत् किमुच्यत इत्याह-गिद्धपित्ति गृ|ः स्पृष्टं-स्पर्शनं यस्मिंस्तद्गभ्रस्पृष्टम् , यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्त्वादुदरादि च मर्तुर्यस्मिंस्तद्ध्रपृष्ठम् , स ह्यलक्तकपूणिकापुटप्रदानेनाप्यात्मानं गृध्रादिभिः पृष्ठादौ भक्षयतीति, पश्चानिर्दिष्टस्यापि चास्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम् , 'उबंधणाइ वेहासंति' उत्-ऊर्ध्वं वृक्षशाखादौ बन्धनमुद्वन्धनं तदादिर्यस्य । तरुगिरिभृगुप्रपातादेरात्मजनितस्य मरणस्य तदुद्वन्धनादि वेहास'न्ति प्राकृतत्त्वाद्यलोपे वैहायसम् ,उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तम् । आह-एवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायसिकेऽन्तर्भावः, सत्यमेतत् , केवलमल्पसत्त्वैरध्यवसातुमशक्यताख्यापनार्थमस्य भेदेनोपन्यासः, ननु-“भावियजिणवयणाणं ममत्तरहियाण णत्थि हु विसेसो। अत्ताणमि परंमि य तो वजे पीडमुभएवि ॥१॥” इत्यागमः, एते चानन्तरोक्ते मरणे १ भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १॥ ॥२३४॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy