________________
अविरयमरणं वालं मरणं विरयाण पंडियं विति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥२२२॥ | व्याख्या-विरमणं विरतं-हिंसाऽनृतादेरुपरमणं न विद्यते तद् येषां तेऽमी अविरताः तेषां-मृतिसमयेऽपि देशविरतिमप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दृशां वा मरणमविरतमरणं-बालमरणमिति ब्रुवत इति सम्बन्धः, तथा |'विरतानां' सर्वसावद्यनिवृत्तिमभ्युपगतानां मरणं 'पण्डित'मिति प्रक्रमात्पण्डितमरणम् , 'विति'त्ति त्रुवते तीर्थकरगणधरादयः, जानीहि 'बालपण्डितमरण मिति मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेष द्योतयति, देशात् सर्वविषयापेक्षया स्थूलप्राणिव्यपरोपणादेर्विरता देशविरतास्तेषामिति गाथार्थः ॥ २२२ ॥ एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरणकेवलिमरणे प्रतिपादयितुमाह
मणपज्जवोहिनाणी सुअमइनाणी मरंति जे समणा । छउमत्थमरणमेयं केवलिमरणं तु केवलिणो॥२२३॥ RI व्याख्या-मनःपर्यवज्ञानिनोऽवधिज्ञानिनश्च, ज्ञानिशब्दस्य प्रत्येकमभिसम्बन्धात् , श्रुतज्ञानिनो मतिज्ञानिनश्च
नियन्ते' प्राणांस्त्यजन्ति ये 'श्रमणाः' तपखिनः छादयन्ति छद्मानि-ज्ञानावरणादीनि तेषु तिष्ठन्तीति छद्मस्थाः तेषां मरणं छद्मस्थमरणमेतत् , इह च प्रथमतो मनःपर्यायनिर्देशो विशुद्धिकृतप्राधान्यमङ्गीकृत्य चारित्रिण एव तदुपजायत इति स्वामिकृतप्राधान्यापेक्षो वा, एवमवध्यादिष्वपि यथायोगं वधियैव हेतुरभिधेयः, केवलिमरणं तु ये केव
CCCCCIRECTOR
Jain Educational
For Personal & Private Use Only
www.jainelibrary.org