________________
उत्तराध्य.
बृहद्धृत्तिः
॥२३३॥
दुःखेनान्तः-पर्यन्तो यस्य तहुरन्तं तस्मिन् , तथा 'दीर्घ' अनादौ केषाञ्चिदपर्यवसिते चेति तत् सर्वथा परिहर्त्तव्यमे- अकामवेति भाव इति गाथार्थः ॥ २२० ॥ तद्भवमरणमाह
मरणाध्य. मोत्तुं अकम्मभूमगनरतिरिए सुरगणे अ नेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥२२१ ॥
व्याख्या-'मुक्त्वा' अपहाय, कान् ?-'अकम्मभूमगनरतिरिएत्ति सूत्रत्वात् अकर्मभूमिजाश्च ते देवकुरूत्तरकुदिपूत्पन्नतया नरतियञ्चश्च अकर्मभूमिजनरतियश्चस्तान् , तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा 'सुरगणांच सुरनिकायान् , किमुक्तं भवति ?-चतुर्निकायवर्तिनोऽपि देवान् , निरयो-नरकः तस्मिन् भवा नैरयिकाः, इहापि |चशब्दानुवृत्तेस्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, 'शेषाणाम् ' एतदुद्धरितानां कर्मभूमिजनरतिरश्चां 'जीवानां' प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद्धि यस्मिन् भवे वर्त्तते । जन्तुस्तद्भवयोग्यमेवायुर्वट्वा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्खयेयवर्षायुषामेवेति विशेषख्या-1 पकः, असङ्ख्येयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु 'के-F॥२३३॥ पाश्चित् ' तद्भवोत्पादानुरूपमेवायुःकर्मोपचिन्वतामिति गाथार्थः ॥ २२१ ॥ अत्रान्तरे प्रत्यन्तरेषु 'मोत्तूण ओहि-३ मरणं' इत्यादिगाथा दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णिकृताऽसौ व्याख्यातेति उपेक्ष्यते ॥ सम्प्रति बालपण्डितमिश्रमरणखरूपमाह
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org