SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आकाशमिव पङ्केन, न स पापेन लिप्यते ॥१॥' इत्यादिकाभिर्दयादमबहिष्कृताभिः, तद्वहिष्कृतानां हि विविधवल्कलवेषादिधारिणामपि न केनचित्पापात् परित्राणं, तथा च वाचक:-"चर्मवल्कलचीराणि, कूर्चमुण्डजटा-3 है शिखाः । न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥ १॥” इति सूत्रार्थः ॥ अत एवाह सूत्रकृत् न हु पाणवहं अणुजाणे मुच्चेज कयाइ सव्वदुक्खाणं । एवमारिएहिमक्खायं जेहिं इमो साहुधम्मो पन्नत्तो८ ६ व्याख्या-'न हु' नैव 'प्राणवधं' प्राणघातं, मृषाधुपलक्षणं चैतत् , 'अणुजाणे'त्ति अपिशब्दस्य लुप्तनिर्दिष्टत्वात् | है अनुजानन्नपि, आस्तां कुर्वन् कारयन् वा, 'मुच्येत'त्यज्येत , सम्भावने लिट् (ङ), ततो मुक्तिसम्भावनाऽपि नास्तीत्युक्तं | भवति, 'कदाचित् ' कस्मिंश्चिदपि काले, कैर्मुच्येत? इत्याह-'सबदुक्खाणं ति दुःखयन्तीति दुःखानि-कर्माणि सर्वाणि ६च तानि दुःखानि च सर्वदुःखानि तैः, सुब्व्यत्ययाच तृतीयार्थे षष्ठी, यद्वा सर्वदुःखैः-नरकादिगतिभाविभिः शारीरमानसैः । है क्लेशैः, ततः प्राणातिपातनिवृत्ता एव श्रमणास्त एव चातरं तरन्ति न वितर इत्युक्तं भवति, किमेतत् त्वयैवोच्यते । Pइत्याह-'एवारिएहिंति एवम्' उक्तप्रकारेणाऽऽर्यैः-सकलहेयधर्मेभ्यो दूरं यातैस्तीर्थकरादिभिराचार्यैर्वा आख्यात कथितं, ये कीदृश इत्याह-'यैः' आर्यैराचार्यैर्वाऽयं 'साधुधर्मो' हिंसानिवृत्त्यादिः 'प्रज्ञप्तः' प्ररूपितः, अयमित्यनेन || चात्मनि वर्तमानं तेषां प्रज्ञाप्यचौराणां प्रत्यक्षं साधुधर्म निर्दिशतीति सूत्रार्थः ॥ यद्येवं ततः किं कृत्यम् ? इत्याहपाणे य नाइवाइज्जा से समियत्ति वुच्चई ताई । तओ से पावयं कम्म निजाइ उद्गं व थलाओ॥९॥ Jain Education Themational For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy